________________
१७५
द्वारकत्वं विशेषणं देयम्, इत्यदृष्टाहारकमरणोद्देश्यकमरणानुकूलव्यापारत्वमेव हि हिंसा न्यायशास्त्रसिद्धेति तृतीयपक्षोऽवशिष्यते । स तु स्वमतिविकल्पितत्वादेव स्वशास्त्रप्रतिज्ञावाधया महादोषावह इत्यभिप्रायेणाह'अणुसंगयाहिंसाए जिणस्स दोसं तुहं नणंतस्स। साहण वि आनोगा पश्नत्तारा विह मिजा॥५६॥
'अणुसंगयहिंसाए 'त्ति अनुषङ्गजया-धर्मदेशनामात्रोद्देशकमवृत्युपजायमानकुनयमतखेदादिवत्स्वानुद्देश्यकपत्तिजनितया हिंसया जिनस्य दोषं भणतस्तव साधूनामप्याभोगान्नद्युत्तारादि विघटेत, तेषामपि नद्युत्तारादौ जलजीवादि विराधनाया अध्यक्षसिद्धत्वादिति । नन्वेतदसिद्धम्, नहि जलजीवानामप्रत्यक्षत्वेन तद्विराधनायाः प्रत्यक्षत्वं सम्भवति, प्रतियोगिनोऽप्रत्यक्षत्वे तदनुयोगिनोsप्यप्रत्यक्षत्वात् । न च जलस्य प्रत्यक्षत्वेन तज्जीवानामपि प्रत्यक्षत्वमिति वाच्यम्, इदं जलमिति ज्ञानमात्रेणेदंजलं सचित्तमिति विवेकेन परिज्ञानोदयप्रसक्तेः । तस्मात् " दुविहा पुढविकाइआ प०, तं० परिणया चेव अपरिणया चेव, जाव वणप्फइकाइअ"त्ति श्रीस्थानाङ्गे । “तत्र परिणताः स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिता अचित्तीभूता इत्यर्थः” इत्यादिप्रवचनवचनेन नद्यादिनले सचित्ताचित्तयोरन्यतरत्वेन परिज्ञाने सत्यपि इदं जलं सचित्तम्, इदं वा अचित्तम्-इति व्यक्त्या विवेकमधिकृत्य परिज्ञानाभावेन छद्मस्थसंयतानामनाभोग एव, तेन सिद्धा नद्युत्तारादौ जीवविराधनाऽनाभोगजन्याशक्यपरिहारेणइत्याशङ्कायामाह-- 'वऊतो अ अणिदं, जलजीवविराहणं तहिं सख्। जलजीवाणाजोगं जंपतो किं पलसि ॥५७ ॥
१ अनुषङ्गजहिंसया जिनस्य दोषं तव भणतः । ___ साधूनामप्याभोगाद् नद्युत्तारादि विघटेत ॥ ५६ ॥
२ द्विविधाः पृथ्वीकायिकाः प्रज्ञप्ताः, तद्यथा-परिणताश्चैव अपरिणताश्चैव, यावद् वनस्पतिकायिका इति ॥
३ वर्जयश्चानिष्ठां जलजीवविराधनां तत्र साक्षात् । जलजीवानाभोगं जल्पयन् किं न लज्जसे ॥ ५७ ॥