________________
८३
मपि सद्भूता करणनियमवर्णनस्य शुभभाव विशेष सापेक्षत्वेन मार्गानसारितया लेषु सामान्यधर्म सिद्धेः । शुभभावविशेषसापेक्षत्वं च तस्य: तो अकरण नियमो अण्णेहिवि वणिओं ससत्यमि । सुहभावविसेसाओ ण चैवमेसो ण जुत्तोति ।। " इति
66
उपदेशपदवचनेनैव प्रसिद्धम् । न चैवंविधस्तेषां शुभाध्यवसाय-स्तथाभूतमोहनीय क्षयोपशमंजनितत्वेन स्वयमेवोक्तो निरनुबन्धशुभ-प्रकृतिहेतुत्वाद नर्थ हेतुरेवेति परेण वक्तुं युक्तम् । निरुपधिभवबीज -- प्रहाणेच्छागोचरमार्गानुसारि शुभाध्यवसायस्य शुभानुबन्धिपुण्य निमितस्येने/तत्वात् । तदुक्तमन्धकाधिकारे योगबिन्दौ
-
" क्रोधाद्यवादितः शान्त उदात्तस्तु महाशयः । शुभानुवन्धिपुण्याच विशिष्टमतिसंगतः ॥ ऊहते यमतः प्रायों भवबीजादिगोचरम् ।' कान्तादिगतयादि तथा भोगीव सुन्दरम् ॥ " इति ।
अन एवं परेषानकरगति हेतुः शुभ भावविशेषो वज्रब दभेद्यः प्रशस्त परिणामभेद उपदेशपदवृत्तौ विद्रुतः । अयमेव स्प विशेषो यद्विशेषदेशवाति संघानं विनाऽपिं तद्विशेषपर्यवसायित्वमिति । अत एव मागीनुहारिणां परेषां जैनाभिमतप्रकारेण जीवाद्यनभ्युपगमान्न नास्तिकत्वम्, विप्रतिपत्त्रांशे पक्षपातपरित्यागे सति वस्तुतस्तभ्युपगमपर्यवसानाद् । अत एव शुभभावविशेषादकरण-निमवर्णनं मार्गानुसारिणामेव यदृच्छाप्रणयनप्रवृत्तानामर्वाचीनानां च प्रवाहपतितत्वेन घुणाक्षरन्यायेनैवाने जिनवचनविषयक परोपनिबन्धेऽप्यस्ति विशेषः । तदिदमुक्तं धर्मविन्दुवृत्तौ - " यच यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किचिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि: क्वचित् सदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्येति । एतेन घुणाक्षरन्यायेन जैनाभिमत वस्तुवर्णनानुकारि वर्णनमन्यतीर्थिकेषु भवत्य इतोऽकरणनियमो ऽन्यैरपि वर्णितः खशास्त्रे । शुभभावविशेषाद् न द्वेष न युक्तः इतिः ॥
६