________________
"" गुणतस्तव तुल्ये संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥ " इति
एतत्सर्वं समर्थयन्नाह
८२
46
संव्वायमूलं दुवालसँग जओ समक्खाये । रयणागरतुलै खलु तो सव्वं सुंदरं तंमि ||
सर्वप्रवादमूलं - भिक्षु कणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिन्कारणम् । किं तद् ? इत्याह- द्वादशाङ्गं - द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुत्रावयवभूतानां समाहारो यतः कारणात्समाख्यातं सम्यक् प्रज्ञप्तम् । सिद्धनदीवाकरादिभिर्यतः पव्यते
" उदघाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ॥
"
,
अत एव रत्नाकरतुल्यं क्षीरोदधिप्रभृतिजलनिधिनिभम् खलु निश्रये, तस्मात् सर्वमपरिशेषसुन्दरं यत्किंचित्प्रवादान्तरेषु स उपलभ्यते तत्तत्र समयतारणीयम् ।
इत्यकरणनियमादीन्यपि वाक्यानि तेषु तेषु योगशास्त्रेषु व्यासकालातीतपतञ्जल्यादीनि प्रणीतानि जिनवचनमहोदधिमध्यलब्धो ' दयान्येव दृश्यानीति । तेषामवज्ञाकरणे सकलदुःखमूलभूताया भग चदवज्ञायाः प्रसङ्गात् न काचित्कल्याणसिद्धिरिति ।
यतु कश्चिदाह - " जैनानामकरण नियमपरिहारशङ्कानिरासार्थमेव तीर्थान्तरीयवर्णितत्वमुपवर्णितं नत्वन्यतीर्थिकेष्वकरणनियमोऽस्तीति भणितम् । वर्णनं च वर्णनीयवस्तुविषयक यथार्थज्ञानसापेक्षमेव, अन्यथा च तथाभूतवर्णनं सम्यगेव स्यात्, तथा च तद्दर्शनेऽपि धर्मसद्भावप्रसङ्गः । इत्थं च कपिलस्य पुरस्तान्मनागिहापि धर्मोऽस्तीति परिव्राजकदर्शनमधिकृत्य मरीचिवचनमुत्सूत्रं न स्यादिति । तदसत्, तीर्थान्तरीयाणा
सर्वप्रवादमूलं द्वादशाङ्गं यतः समाख्यातम् । रत्नाकरतुल्यं खलु ततः सर्व सुन्दरं तस्मिन् ॥