________________
· १४७
कालनियमानुपपत्तिरिति व्यक्तैव सामान्यसूत्रादिष विशेषसूत्रादप्यनन्तभवसिद्धिरिति-चेत् , तदिदमसिद्धमसिद्धेन साधयतो महातार्कि कत्वमायुष्मतः। यतो 'जाव चत्तारि' इत्यादावपि शमन्तचतुःपञ्चपदसमानाधिकरणभवग्रहणपदेोत्तरद्वितीयाविभक्तरेव "कालाध्वनोळप्तौ" [सिद्ध ०.२-२-४२] इत्यनुशासनात्कालनियमसिद्धौ न पुनस्तदभिधानाय यावच्छब्दप्रयोगः, अर्थपुनरुक्ततयोः प्रसङ्गात् , तस्मात्तदनुरोधेन तावच्छब्दस्य विशेषसूत्रे यावत्तावच्छब्दयोश्चाध्याहारकल्पनाऽतिजघन्यैवेति।
नन्वेवं " स्थितेर्गतिश्चिन्तनीया” इति यावच्छन्दस्य सूत्रस्थस्य कोऽर्थः ? इति चेत् , ततो देवलोकादायुःक्षयादिनां च्युत्वेति पूर्वप्रकान्तपदसमुदायार्थ एवेत्यवेहि । अथैवं गणसंबन्ध्याद्यन्तपदबिशिष्टस्यैव यावच्छब्दस्य पूर्वप्रक्रान्तगणवाक्यार्थवाचकत्वमिति व्युत्पत्तिभङ्ग इति चेत्, न । तादृशनियमे प्रमाणाभावात् , पूर्वप्रकान्तवाक्यार्थवाचकत्वे यावच्छब्दस्य खसंबन्धिपदोपसंदानमात्रस्य ग्राहकत्वेनापेक्षितत्वाद् । अत एव कचिद्गणसंबन्ध्याद्यन्तपदविशिष्टादिव कचिदन्त्यपदविशिष्टादपि यावच्छब्दात्तदुपस्थितिः। तथाहि
एगंतपंडिए णं मणुस्से किं णेरइआउं पकरेइ ४ ? पुच्छा । गोअमा ! एगंतपडिए णं मणुस्से आउअं सिअ पकरेइ, सिअ णो पकरेइ । जइ पकरेइ णो णेरइआउअं पकरेइ, णो तिरिणो मणु (स्से ), देवाउअं पकरेइ । णो णेरइआउथं किच्चा रइएसु उववजइ णो तिरिणो मणुस्से, देवाउअं किच्चा देवेसु उववजइ । से केणटेणं जाव देवाउअं किच्चा देवेसु उववजइ ? । गोअमा। एगंतपंडिअस्स णं मणुस्सस्स केवलमेव दो गतीओ पण्णत्ताओ, अंतकिरिया चेव कप्योववत्तिया चेव, से तेणद्वेणं गोअमा ! जाव देवाउअं किच्चा देवेसु. उववजइत्ति ॥"
अत्र हि यावच्छब्दस्य न गणसंबन्ध्याद्यन्त्यपदविशिष्टतथैव पूर्व प्रक्रान्तवाक्यार्थवाचकत्वं किन्तु खसंबन्ध्यन्त्यपदोपसंदानादेव, तद्वदिहापि चत्वारि पंचेत्यादिस्वसंवन्धिपदोपसंदानाद् यांवच्छन्दस्य पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे न किंचिद् बाधकमिति युक्तं पश्यामः ।