SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ निर्वहण देशाराधकः, विरतिपरित्यागेनैव चाविरतसम्यग्दृष्टिरपि देश: विराधकः, “प्राप्तस्य तस्यापालना" इति वचनात् इत्युभयोरपि प्रकारयोः सविषयत्वेन प्रामाण्यसिद्धं 'यदप्रार्वा' इति विकल्पेन व्यारूयानं तत्केनाभिप्रायेण ? इति संशये सम्यगवक्तृवचनं वयमा श्रीतुकामाः स्म इति बोध्यम् , यतो यद्यप्राप्तिमात्रेण विभाधकत्वं स्यात् तहि चरकपरिव्राजकादीनां ज्योतिष्काव॑मुपपाताभावः प्रसज्येत, मोक्षकारणभूतानां सम्यग्ज्ञानादीनां त्रयाणां लेशतोऽप्यभावेन देश: विरतिसर्वविरत्योयुगपद्विराधकत्वात् । तथा ' द्वादशापर्यन्तनानाश्रुतावधिप्रवृत्यप्राप्तिमान् छद्रस्थसंयतो दूरे, केवल्यप्यप्राप्तजिनकल्यादेविराधकः प्रसज्येत' इति यत्परेण प्राचीनग्रन्थदूषणरसिकेण प्रोक्तं तत्परिभाषाज्ञानाभावविजृम्भितमिति द्रष्टव्यम् । यो यदप्राप्तिमान् स तद्विराधक इति व्यासौ च तत्र तात्पर्याभावात्, किन्लूक्तपरिभाषायामेव तात्पर्यात् । तत्फलं च देशविराधकत्वेन देशदयाराधकल्वाक्षेपः । बथा च पूर्व भङ्गादाधिक्यं लभ्यते, तेन देशविराधकल्वेऽविस्तसम्यग्दृष्टेर्देशाराधकादप्यधमत्वं स्यादित्यपास्तम्, परिभाषितस्य विराधकत्वस्याधमत्वाप्रयोजकत्वात् प्रत्युत देशद्वयाराधकत्वाक्षेपकतयोत्कर्षभयोजकत्वात् । न च परिभाषा न सुत्रनीतिसिति शनीयम् , “संव्यामगंध पारेचज निरामगंधोपरिव्वए" इत्यादीनां परिभाषासूत्राणामपि तन्प्रत्यवस्थापितत्वाद् । यदि च देशविराधकत्वं नैवं पारिभाषिकमङ्गीक्रियते, तदाऽनुपात्तव्रतः सम्यग्दृष्टिः कस्मिन् भङ्गेऽवतास्णीयः। न च नावतारणीय एव, सर्वाराधकादन्यत्र सहकारियोग्यताभावाभिधानाय त्रिभिरेव भडैः सर्वेषां तद्विलक्षणानां संग्रात्यत्वादिति सूक्ष्ममीक्षणीयम् ॥ २८ ॥ तृतीयचतुर्थभङ्गो विवेचयतितइए भंगे साहू सुअवंतो चेव सीलवंतो अ। उवयारा सड्ढोवि य भवामिणंदी चउत्थंमि ॥२९॥ तृतीये भके साधुः श्रुतवाश्चैव शीलवाँच । उपचारात् श्राद्धोऽपि च भन्नाभिनन्दी चतुर्थे ॥ २९ ॥ १ सामगन्धं परिस्थस्य निरामगन्धः परिमजेत् ॥(आचार)
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy