SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३९ इत्यादावनन्तशब्दसमानाधिकरणस्य दुरन्तशब्दस्य दर्शनाद् दुरन्तानन्तवचनस्यातिशयितानन्तवाचकत्वेन विरोधाभावाद् । इत्थं सति विपरीतप्ररूपणाया दुरन्तानन्तसंसारकारणत्वे मरीचिदृष्टान्तो-पन्यासस्य साक्षात्तस्यासंख्यातभववाचकप्रमाणविरोधेनानुपपत्तिस्तु तस्या दुरन्तानन्तसंसारकारणत्वोपलक्षितायुक्त तरत्वोपनयनाभिप्रायेण निरसनीया । यतु श्रावकस्य बिपरीतप्ररूपणाया अग्र प्रकृतत्वात्तस्य चानाभो-गाद् गुरुनियोगाद्वा तत्संभवात्तथाषिषष्टिपरिणामाभावान्नासावन-न्तसंसारहेतुः, अत एव श्रावकप्रतिक्रमणसूत्रस्य पृत्तौ केवलं दुरन्त-शब्दस्यैषामिवानम् । या च विपरीतप्ररूपणा मार्गपतितानामनन्त-संसारहेतुः सा सभाप्रबन्धेन धर्मदेशनाधिकारिणां त्वेन लोकपूज्यानामाचार्यादीनां कुतश्चिनिमित्तान्निजलादिहानिभयेन, सावधाचार्यादीनामिव परविषयक मात्सर्येण, गोष्टामाहिलादीनामिव तीर्थकृ-द्वचनस्याश्रद्धाने, जमाख्यादीनामिषा भोगपूर्विकासातव्या । ते चेहाविकाराभावेनानुक्ता अत्यनन्तसंसारित्वेन स्वत एव भाव्या । येन कारणेन कस्यचिदना भोगमूलकमप्युत्सूत्रं कुदर्शनप्रवृतिहेतुत्वेन दीर्घसंसारहेतुरपि भवति, तेन दुरन्तसंसारमधिकृत्य मरीचिरिव दृष्टान्ततया दर्शितः । तस्य च तथाभूतमप्युत्सूत्रं तथैव संजातम्, श्रीआयश्यकचूर्णावपि तथैवोक्तत्वात्; अन्यथा द्विश्रादिभवभाषिमुक्तीनामपि सुनिप्रभृतीनामनन्त संसारित्यवक्तव्यताऽऽपसी जैनप्रक्रियाया मूलत एवोच्छेदः स्यादित्यादि परेणोक्तं तदसत् । श्रावकस्यापि " जणस्स धम्मं परिकहेइ "ति वचनाद् गुरूपदेशात्ततया धर्मकथनाधिकारित्वश्रवणात्कर्मपरिणतिवैचित्र्येण तस्यापि गुरूपदेशायत्ततां परित्यज्य कथंचित्सावद्याचार्यादीनामिव विपरीतप्ररूपणासंभवात् तस्याश्च स्वरूपतोऽनन्त संसारकारणत्वात् तत्प्रतिक्रमणार्थमिहेत्थमुपनिबन्धाद् । न चान्यत्र दुरन्ताभिधानमनन्तत्वप्रतिक्षेपकम्, दुरन्तत्वस्यानन्तत्वाविरोधित्वाद् । अनन्तसंसाराधिकाराभावादिह दृष्टान्तानु किरिति तु प्रकृतग्रन्थस्य खण्डनं न तु मण्डनम् । सा चायुक्ततरा, 'दुरन्ता१ जनस्य धर्मे परिकथयति ।
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy