________________
नन्तसंसारहेतुः' इत्यवस्थितपाळल्यागेनैव सदृष्टान्नाध्याहारसंभवात् तस्मादूक्तोपलक्षणव्याख्यानरीत्यैव प्रकृतोपनयसमर्थनं न्याय्यम् । ईरशोत्सूत्रवचने स्वरूपतोऽनन्तासंसारहेतुत्ववचने चरमशरीरिक्रियमापारम्मेऽपि स्वरूपतो नरकहेतुत्ववचनवत् प्रक्रिया विरोधादिति सम्यब्रिभावीयम् । इत्थं च
"आयरिअपरंपरएण आगयं जो उ आणुपुबीए । . कोइ छोयवाई जमालिणास व पासीहि ॥” " आचार्याः श्रीसुधर्मस्वामि-जंबूनाम-प्रभवार्यरक्षितावास्तेषां परम्परा-प्रणालिका पारम्पर्य तेनागतं यद-याख्यानं सूत्राभिप्रायस्तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति । यस्तु कुतर्कदध्मातमनसा मिथ्यात्वोपहतदृष्टितया छेकबुद्धया-निपुणवुद्ध्या 'कु. शाग्रीयशेमुषीकोऽहम् ' इति कृत्वा कोपयति दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे ‘कृतम्' इत्येवं याद्-वक्ति वचनम् । नाहि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी-'निपुणोऽहम्' इत्येवंवादी पण्डिताभिमानी जमालिनाशं-जमालिनिह्नववत्सर्वज्ञमतविगोपको विनङ्खयति-अरघट्टघटीय'नन्यायेन संसारचक्रवालं बंभ्रमिष्यति" इत्यादि सूत्रकृताइयथातभ्याध्ययननियुक्तिवृत्तिवचनमात्रमवलम्ब्य ये जमालेररघघटीयन्त्रन्यायेन संसारचक्रवालभ्रमणे साध्ये दृष्टान्ततयोपदर्शितत्वाद दृष्टान्तस्य च निश्चितसाध्यधर्मवत्त्वात् तस्यानन्तसंसारित्वसिद्धिरिति यदन्ति ते पर्यनुयोज्याः । नन्वयमपि दृष्टान्तः प्रागुक्तमरीचिदृष्टान्तबदुपलक्षणपर एवेत्यरघघटीयन्त्रन्यायोपलक्षितसंसारचक्रवालपरिभ्रमणसाध्येनायुक्त इति कथमस्माद्भवताभिष्टसिद्धिः ? अन्यथाऽरघघटीयन्त्रन्यायोऽत्र प्रकरणमहिम्ना पुन: पुनश्चतुर्गतिभ्रमणपर्यवसित इति चतुर्गतिभ्रमणमपि जमालेरनेन न्यायेन सिध्येत् ।
यत्तु यस्यैकेन्द्रियादिषु पुनः पुनरुत्पादे द्राधीयसी संसारस्थितिस्तमुद्दिश्यैवायं न्यायः प्रवर्तते
आचार्यपारम्पर्येणागतं यस्तु आनुपूर्व्या । कोपयति च्छेकवादी जमालिनाशामिव नश्यति ।