________________
२२४ प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति तद्विवेकं वाऽभावाख्यमुपैति, तत्करोति येन कर्मणोऽभावो भवतीति ॥” । ____ अत्र गुर्वादेशविधायिनमभिक्रमणादिव्यापारवन्तमप्रयत्तसंयतमवश्यंभाविजीव विराधनाभागिनमनूद्य कर्मबन्धाबन्धविशेषविधानं वृत्तौ पूरितम् , अनाकुट्टिकयाऽऽकुट्टिकया च जीवविराधनाकारिणं प्रमत्तसंयतमन्द्येहलोकवेदनद्यापतितस्य विवेकयोग्यस्य च कर्मबन्धस्य विधानं साक्षादेव सूत्रेऽभिहितम्, तत्र केवली 'उद्देसोपासगस्स पत्थि' त्ति वचनाद् गुर्वादेशविधायित्वाभावात् सम्भावितभाविजीवघातभयाविनाभाविनियताभिक्रमणादिक्रियाभावाच्च नानूद्य इति तद्वहि भर्भावेनैवावश्यंभाविजीवविराधनानिमित्तकबन्धाबन्धविचार इति परोऽभिमन्यते, तन्महामृषावादविलसितम् । साक्षादेव केवलिनमन्ध वृत्तौ तत्समर्थनस्य ब्रह्मणापि पराकर्तुमशक्यत्वात् । तत्रान्द्यतावच्छेदकधर्म विरोधोद्भावनेन च वृत्तिकृत एव सूत्राभिप्रायानभिज्ञतां वक्तुमुपक्रान्तो देवानां प्रियस्तमेव मन्यमानस्तमेव वाऽवमन्यस इति महाकष्टं तद् । न चैतद्विरोधोद्भावनं विचार्यमाणं चमत्कारकारि,गुर्वादेशविधायित्वस्य भगवति फलतोऽभिधानाविरोधाद् , अत एव " किं ते भंते ! जत्ता ? सोमिला ! जं मे तवणियमसंजमसज्झायज्झाणावस्सयमाईसु जयणा । सेत्तं जत्ता"। इत्यत्र सूत्रे एतेषु च यद्यपि भगवतो न किञ्चित्तदानीं विशेषतः सम्भवति, तथापि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यमित्युक्तम् । अभिक्रमणादियतनाव्यापाराश्च यादृशाश्छद्मस्थसंयतानामयतनाभयाविनाभाविनस्तादृशा एवायतनाभयाभावेऽपि भगवतः सम्भवत्येव, साधुसमानधर्मतयैव कल्पिकपरिहारादियतनावदभिक्रमणादियतनाया अप्युपपत्तेरिति न किञ्चिदेतत् ।
यत्त्ववश्यंभावित्वं प्रायोऽसम्भविसम्भविकार्यत्वम् , यदेव हि प्रायोऽसम्भवि सत् कदाचित्सम्भवति तदेवावश्यम्भावीति व्यवहियते, अन्यथा सर्वमपि कार्यमवश्यभावित्वेन वक्तव्यं स्यात् । पञ्चसमवायवादिभिर्जनैः सर्वस्यापि कार्यस्य नियतिजन्यतामधिकृत्यावश्यभावित्वेनेष्टत्वात् , कालादिषु पञ्चसु कारणेषु नियतेरपि परिगणनाद् , अत एव जमालिनिमित्तकनिहवमार्गोत्पत्तिरवश्यभाविनीति प्रवचने प्रतीतिः । तोर्थकरदीक्षितशिष्यात् निहवमार्गोत्पत्तेः प्रायोऽसम्भविसम्भवाद् , एवमप्रमत्तसंयतस्य कायादिव्यापाराज्जायमानानाभोगवशेन कादाचिकीत्यवश्यभाविनी वक्तुं युज्यते नतु केवलिना, तस्य सत्कादाचित्कतानियामकानाभोगाभावादिति नावश्यंभाविविराधनावन्तं केवलिनमन्ध किमपि विचार