SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२३ कम्यं तप्परिनाय विवेगमेति ति"॥अथैतवृत्तिः-'से' इत्यादि । स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् , प्रतिक्रामन्-निवर्तमानः, संकुचन् हस्तपादादिसङ्कोचनतः, प्रसारयन् हस्तादीनवयवान, विनिवर्तमानः समस्ताशुभव्यापारान् सम्यक् परिसमन्ताद् हस्तपादादीनवयवांस्तनिक्षेपस्थानिव रजोहरणादिना मृजन् संपरिमृजन्, गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम् । तत्र निविष्टस्य विधिः-भूम्यामेकमुरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत् , निश्चलस्थानासहिष्णुतया भूमी प्रत्युपेक्ष्य प्रमृज्य च कुक्कुटीविजृम्भित. दृष्टान्तेन सङ्कोचयेत्प्रसारयेद्वा, स्वपनपि मयूरवत् स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते इत्येवमादि सम्परिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यं भावितया यत् स्यात्तदाह-एगया' इत्यादि । एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामत सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यां चिदवस्थायां कायः शरीरं तसंस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः प्राणिन एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयवविध्वंसमापधन्ते । अपश्चिमावस्थां तु सूत्रेणैव दर्शयति-एके प्राणाः प्राणिनोऽपद्रान्ति-प्राणै विमुच्यन्ते । अत्र च कर्मबन्धं प्रति विचित्रता । तथा हि-शैलेश्यवस्थायां मशकादानां कायसंस्पर्शेन प्राणत्यागेऽपि पञ्चधोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकपायाभावात् सामयिका, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्त्तम, उत्कृष्टतश्चान्त:कोटाकोटिस्थितिरिति । प्रमत्तस्य खनाकुट्टिकतामुपेत्य प्रवृत्तस्य कचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यत उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । सचेतेनोपि भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-'इह लोग' इत्यादि। इहास्मिन् लोके जन्मनि वेदमनुभवनमिह लोकधेदनं तेन वेद्यमनुभवनीयमिहलोकरदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनापि यदि कायतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद्, आकुट्टिकृतकर्मणि तु यद्विधेयं तदाह 'जं आउट्टी' इत्यादि । यत्तु पुनः कर्माकुटया कृतमागमोक्तकारणमन्तरेणोपेत्य पाण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिजया विवेकमेति विविच्यतेऽनेनेति विवेकः
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy