________________
णीयमस्ति' इति परेणोद्घष्यते, तदसद् । अनाभोगादेरिव विषयासन्निधानादेरपि कांदाचित्कत्वेनावश्यंभावित्वोपपत्ते केवलिनोऽप्यप्रमत्तयतेरिवावश्यंभाविजीवविराधनोपपत्तेः। अन्यथा तमधिकृत्य वृत्तिकृता यत्सामयिककर्मबन्धावन्धव्याख्यानं कृतं तस्यात्यन्तमनुपपत्तेः । किञ्च अवश्यंभाविनी जीवविराधना प्रायोऽ सम्भविसम्भवाऽप्रमत्तस्यैव नतु प्रमत्तस्य, तदीयकायव्यापाराज्जायमानस्य जीवघातस्य प्रायः सम्भविसम्भवत्वात् , प्रमत्तयोगानां तथास्वभावत्वाद् , अत एव प्रमत्तसंयतस्य प्रमत्तयोगानङ्गीकृत्यारम्भिकी क्रियापि, तेषां योगानां जीवघाताहत्वाद् , अन्यथा प्रमत्ताप्रमत्तयोरविशेषः सम्पद्येति (तेति) परस्याभ्युपगमेऽवस्थितसूत्रस्यैवानुपपतिः, अनाकुट्टिकयाऽनुपेत्य प्रवृत्तमवश्यंभाविजीवविराधनावन्तं प्रमत्तसंयतमधिकृत्यैवेहलोकवेदनवेद्यापतितकर्मबन्धस्य साक्षात्सूत्रेऽभिधानात्, तस्य च जीवविराधनाया अवश्यंभावित्वस्य प्रायः सम्भविसम्भवत्वेन परेण निषेधात् , तस्मान्नायं पन्थाः, किन्त्वनभिमतत्वे सत्यवर्जनीयसामग्रीकत्वमवश्यंभावित्वव्यवहारविषयः, अत एव जिज्ञासितयोर्द्वयोर्वस्तुनोः पुरःस्थितयोरेकस्य दर्शनार्थमुन्मीलितेन चक्षुषाऽपरस्यापि दर्शनमवश्यं भवतीति व्यवह्रियते । अत एव च जमालेभंगवता दीक्षणे निह्नवमार्गोत्पादस्यावश्यंभावित्वमपि नानुपपन्नम्, तदानीं तस्यानभिमतस्याप्यवर्जनीयसामग्रीकत्वात् ; एवंविधा चावश्यंभाविनी विराधना संयतानां सर्वेषामपि सम्भवतीति तामधिकृत्य वृत्तिकदुक्ता व्यवस्था केवलिन्यपि युक्तिमत्येवेति । वस्तुतः सर्वस्यापि कार्यस्य पुरुषकारभवितव्यतोभयजन्यत्वेऽपीदं कार्य पुरुषकारजनितमिदं च भवितव्यताजनितमिति विभक्तो व्यवहार एकैकस्योत्कटत्वलक्षणां बहुत्वलक्षणां वा मुख्यतामादायैव शास्त्रकारैरुपपादितः। तदिह साधूनामनाकुटया जायमाने जीवधाते भवितव्यताया एव मुख्यतया व्याप्रियमाणत्वात् तत्रावश्यंभावित्वव्यवहारः, न त्वनाभोगजन्यत्वमेव तत्र तत्रम्, आभोगपूर्वकस्य कारणिकस्यापि तस्य विवेकयोग्यबन्धहेतोः पृथकरणे नेहलोकवेदनवेद्यापतितकर्मबन्धहेतुतया परिशेषितस्यावश्यंभावित्वेनैव परिगणनात् , ततो जीवरक्षापरिणामवतामाकुटया जीवघातप्रवृत्तिरहितानां सर्वेषामेव संयतानां या काचिद्विराधना भवति साऽवश्यंभाविनीति कायस्पर्शमनुचीर्णैः पाणिभिरुपजायमानां तामाश्रित्याकेवलिनं वृत्तिकृदुक्तव्यवस्थायां न कोऽपि सन्देह इति सूक्ष्ममीक्षणीयम् । एवं सत्यपि परस्येयं शङ्कोन्मीलति-यदुताऽत्र कर्मबन्ध प्रति विचित्रता। तथाहि-'शैलेश्यवस्थायां कायसंस्पर्शेन मशकादीनांमाणत्पा