________________
૨૧૬
गेsपि पञ्चविधोपादानकारणाभावान्नास्ति बन्धः' इत्यत्र कर्त्तुः सम्यविचारे मशकादीनां प्राणत्यागस्य कर्चा किमयोगिकेवली, उतान्यः कश्चिद् । नाद्यः, अयोगित्वकर्तृत्वयोर्विरोधेनायोगिकेबलिनः कर्तृत्वाभावाद नहि कायादिव्यापारमन्तरेण कर्त्ता भवितुमर्हति ' क्रियाहेतुः स्वतन्त्रः कर्ता ' इति वचनात् । यदि चायोगिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तन्निमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः स्यात् । पुरुषप्रयत्नमन्तरेणापि प्राणत्यागलक्षणस्यकार्यस्य जायमानत्वेन पञ्चसमवायवादित्वहानेः । निमित्तत्वमात्रेण च कर्तृत्वव्यपदेशोऽपि न भवति, साध्वादिनिमित्तकोपसर्गस्य दानादेश्व साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तेः । द्वितीयविकल्पेऽन्यः कश्चित् कर्ता - इत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्कभावेन निजप्राणत्यागोऽपि नाभविष्यद् - इति व्याप्तिबलेन मशका दियोगजन्यत्वात् । तथा चायोगिकेवलिनि मशकादिकर्तृका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृकार्यभावसम्बन्धेन जीवविरधनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति ॥ ७० ॥
तत्र आह
कारगसंबंधेणं तस्स पिमित्त स्सिमा उ मज्जाया । कत्ता पुणो पत्तो पियमा पाणाश्वायस्य ॥ ७१ ॥
व्याख्या- -' कारगसंबंधेणं ' ति । कारकस्यापि करणादिरूपस्यायोगिकेवल्यादेः पचानुपूर्व्या प्रमत्त संयतान्तस्य सम्बन्धेन तस्य साक्षात्कायस्पर्शप्रत्ययारम्भस्य निमित्तस्येयमाचा राजवृत्तिकृदुत्ता मर्यादा - अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणाक्रियते, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नाक्तानुपपत्तिरित्यर्थः । कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यवहारेण प्रमादवत एव प्राणातिपातकत्वव्यवस्थितेः, ततो यदि कर्तृकार्यभावसम्बन्धेनैवात्र जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीत्या केवलिन इवाममयतस्यापि निर्देशोऽप्रामाणिक इति सर्वमेव वृत्तिदुक्तं विशीर्येत । यदि