________________
२२७
चोपचारेणाप्रमत्तयतेरपि कथञ्चित्तत्कर्तृ वमिष्यते, तदोपरिष्टादप्युपचारेणैतत्कल्पनं ग्रन्थकाराभिप्रायानुरोधादेव निराबाधमिति यदुच्यते परेण ' सयोगि केवली कदाचिज्जीवविराधकः सम्भवति, भवस्थकेवलित्वाद् अयोगि केवलिवद्' इत्यत्र कदाचिज्जीवविराधकत्वं साध्यमयोगिकेवलिनि दृष्टान्ते नास्ति, तस्याकर्तृत्वात् । किञ्च -अयोगिकेवलिदृष्टान्तदा तुरयोगित्वकर्तृत्वयोर्विरोधापरिज्ञानमपि स्फुटमेवेत्यादि, तत्सर्वं ग्रन्थाभिप्रायापरिज्ञानविजृम्भितमिति मन्तव्यम्; न ह्येवमधिकृताचाराङ्गवृत्तिग्रन्थः कथमप्युपपादितो भवतीति ॥ ७१ ॥
नन्वयं ग्रन्थः प्रासङ्गिक एव । तथाहि - अयोगिकेवलिनि मशकादिघातस्तावन्मशकादिकर्तृक एव तथा च कर्मबन्धोऽप्यध्यवसायानुगतो मशकादीनामेव भवति, एककर्तृकयोरेव कर्मवन्धोपादानकारणयोः परस्परं कार्यकारणभाव संबन्धाद् न पुनर्भिन्नकर्तृकयोरपि, सांसारिकजीवकर्तृकैः पञ्चविधोपादानकारणैः सिद्धानामपि कर्मबन्धप्रसक्तेः । तस्मादन्वयव्यतिरेकाभ्यामनादिसिद्धकार्यभावव्यवस्थासिद्ध्यर्थमत्र च कर्मबन्धं प्रति विचित्रतेत्यादि प्रसङ्गतोऽभिहितम् । तत्रायोगिन्युपादानकारणाभावात् कर्मबन्धाभाव इति व्यतिरेकनियमः प्रदर्शितः, स चान्वयनियमस्य दाढर्यहेतुः, अन्यथा कर्मबन्धविचित्रताविचारेऽबन्धकस्यायोगिकेवलिनो भनमनर्थकमेव सम्पद्येत, प्रयोजनाभावाद् | योगवत्सु चोपादानकारणसत्वे कर्मबन्धलक्षणकार्यसत्त्वमित्यन्वयनियमं प्रदर्शयन्नेव योगवतामपि कर्मबन्धवैचित्र्यमुपादानकारणवैचित्र्यायत्तमेवेति नियमसिद्ध्यर्थं प्रथमं कारणावैचित्र्ये का
"
(a) वैचित्र्यमुपशान्त क्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायोदयाभावात् सामयिकः कर्मबन्ध इति समुच्चयभणनेन बभाण वृत्तिकारः, तेषां च त्रयाणामपि मिथ्यात्वाविरतिकषाययोगंप्रमादलक्षणानां पञ्चविधोपादानकारणानां मध्ये केवलयोगस्यैव सत्त्वेन कर्मबन्धोऽपि तत्प्रत्यय एव । स च सामयिकसातवेदनीयकबन्धलक्षणः समान एव भवति, विचित्रताहेतुमोहनीयोदयाभावाद्, न पुनरुपशान्तस्येव क्षीणमोहस्यापि जीवघातादिकं भवतोति बुद्धया समुच्चयेन भणनम्, सर्वशसाम्यमधिकृत्य समुच्चयेन भणितेरसम्भवाद्, अन्यथोपशान्तस्येव क्षीणमोहस्यापि जीवघातादिहेतुमोहनीयसत्तापि वक्तव्या स्यात्, तथा केवलिवदुपशान्तस्याऽपि सर्वज्ञत्वं वक्तव्यं प्रसज्येत; नहि नारकतिर्यनरामराः कर्मबन्धका इत्यादिसमुच्चयभणनेन सर्वषामपि साम्यं कस्यापि संमतम् । तस्माद्यथा सामान्यतः कर्मबन्धमधिकृत्य नारकादीनां समुच्चयेन भणनं तथा सामयिकसातवेदनीयकर्म