________________
२२८ बन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र अप्रासङ्गिके प्रथमाङ्गत्तिग्रन्थे नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण श्ह कत्तारं नियमा मसगाजीवमहिकिन्छ। जण इमं पासंगियमइप्पसंगो फुडो तस्स ॥ १३ ॥
व्याख्या-'जो पुण' त्ति । यः पुनरिह शैलेश्यवस्थायामवश्यंभाविन्यां जीवविराधनायां कर्तारं नियमान्मशकादिजीवमधिकृत्येदमाचाराङ्गकृत्युक्तं प्रासंगिकं भणति-तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपश्वप्रदर्शनमात्रप्रसङ्गमाप्तं वदति, नतु स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम्, तस्य स्फुट एवातिप्रसङ्गः । एवं ह्यप्रमत्तसंयतस्यापि प्रमादनियतजीवविराधनाकर्तृत्वाभावेन जीवविराधनानिमित्तककर्मवन्धो भ्रियमाणजीवगत एव पयवस्येद्, नत्वप्रमत्तसंयतनिष्ठ इति कर्मवन्धानुमेयविराधनाया अप्रमत्तसंयतादिषु विचित्राया अभिधानमखिलं व्यधिकरणमेव स्यादिति । ..
किञ्च-अत्र 'कर्मवन्धं प्रति विचित्रता' इत्यत्र 'अत्र' इति निमित्तसप्तम्याश्रयणात् संयतसम्बद्धावश्यंभाविजीवविराधनानिमित्तमधिकृत्यैव कर्मबन्धविचित्रता वक्तुमुपक्रान्ता, सा च कर्मबन्धाभावकर्मबन्धावान्तरभेदान्यतररूपेति नायोगिनि तद्विचित्रताऽनुपपत्तिः । अत एव-" सेलेसिं पडिवन्नस्स जे सत्ता फरिस पप्प उद्दायति मसगादी, तत्थ कम्मवंधो पत्थि । सजोगिस्स कम्मबंधो दो समया । जो अपमत्तो उद्दवेइ तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठमुहुत्ता । जो पुण पमत्तो न य आउट्टिआए तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठसंव. छछराइं । जो उण आउट्टिआए पाणे उवद्दवेइ तवो वा छेओ वा वेयावडं वा करेइ ॥” इत्याचारागचूर्णावप्यवश्यंभाविजीवविराधनानिमित्तक एव कर्मबन्धाभावसः (वः) कर्मबन्धविशेषश्चायोगिकेवल्यादीनां संयतानां पश्चानुपूर्व्या व्यक्तः प्रतीयते । कर्मबन्धाभावादौ निमित्तत्वं च तत्र स्वसमानाधिकरणोपादानानुरोधेनाऽभिधीयमानं निमित्तमनैकान्तिकमिति सम्प्रदायादविरुद्धम् । तथा च 'सजोगिस्स कम्मबंधो दो समया' इत्यत्र 'तत्र' इत्यस्यावश्यमनुषङ्गात् । तत्र कायस्पर्श प्राप्य सत्त्वोपद्रवे सयोगिकेवलिनो द्वौ समयौ कर्मबन्ध इति स्फुदार्थप्रतीतावुपशान्तक्षीणमोहयोरपि तत्समानजातीयत्वेन तत्र द्वावेव समयौ कर्म