SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ बन्धः स्फुट इति वृत्तावुपशान्तादीनां समुच्चयेन भणनं न जीवघातमधिकृत्येति यदुच्यते, तद्बहुश्रुतत्वयशक्षतिकरमेव, समुच्चयप्रतियोगिनां पदार्थानां तुल्यवसकृतधर्मविशिष्टक्रियान्वयित्वेनैव समुच्चयनिर्वाहाद् । एवं च यथा सिकतादौ घृतादिसंसर्गेऽपि स्नेहाभावान बन्धः, बदरचूर्णसक्तुचूर्णादीनां तु चिरकालस्थितिहेतुस्नेहविशेषाभावादल्पकालीनो बन्धः, कणिकादीनां तु स्नेहोत्कर्षादुत्कृष्टबन्ध इत्यत्र बदरचूर्णादीनां तुल्यवदेव स्नेहविशेषाभावविशिष्टप्रकृतघृतादिसंसर्गनिमित्तकाल्पकालीनबन्धभवनक्रियान्वयेनैव समुच्चयः प्रतीयते, तथा प्रकृतेऽप्युपशान्तादीनां तुल्यवदेव स्थितिनिमित्तकषायाभावविशिष्टप्रकृतजोवघातनिमित्तफसामयिकबन्धभवनक्रियान्वयेनैव समुच्चयोपपत्तेरिति नारकतिर्यमरामरा इति दृष्टान्तेन प्रत्येकपदार्थधर्ममादाय समुच्चयखण्डनमपाण्डित्यविजृम्भितमेव, तस्य केनाप्यनभ्युपगतत्वात् । प्रकृतधर्मविशिष्टक्रियान्वयतुल्यतारूपसमुच्चयखण्डने तु समुच्चयतात्पर्यंकवाक्यस्यैवानुपपत्तिरिति न किञ्चिदेतत् ॥७२॥ तदेवमाचाराङ्गकृत्यभिप्रायेण यावदयोगिकेवलिन संयतानामपि कायस्पर्शनावश्यंभाविनी(न्या)जीवविराधनया(नाया)व्यक्तमेव प्रतीतावपि ये 'अयोगिकेवलिन्यवश्यंभावी मशकादिघातो मशकादिकर्तृको नत्वयोगिकेवलिकर्तृकः 'इति शब्दमात्रेण मुग्धान् प्रतारयति(न्ति) त एवं प्रष्टव्याः सोऽयमेवंविध एव सयोगिकेवलिनः कथं न भवति ? इति । इत्थं पृष्टाश्च त एवमुत्तरं ददते-योगवतो हि केवलिनो जीवरक्षैव भवति, तत्कारणानां शुभयोगानां सत्त्वात् । अयोगिकेवलिनस्तु योगानामेवाभावेन स्वरूपयोग्यतयापि निजयोगजन्यजीवघातसामच्या अभाववज्जीवरक्षासामग्र्या अप्यभाव एवेति तत्राहजियरक्खा सुहजोगा जइ तुह इट्ठा सजोगिकेवलियो। हंदि तया तयनावे अजोगिणो हुऊ होणत्तं ॥ ७३ ॥ "जिअरक्ख'त्ति।जीवरक्षा-जीवघाताभावरूपा यदि तव मते सयोगिकेवलिन इष्टा, केवलियोगानामेव जीवरक्षाहेतुत्वात् , ' हन्दीत्याक्षेपे' तदा तदभावे-योगाभावेन जीवरक्षाऽभावेऽयोगिकेवलिनो हीनत्वं सयोगिकेवल्यपेक्षयाऽपकृष्टत्वं भवेद् । अयं भावः-जीवघाताभावरूपा जीवरक्षा किं त्वया गुणरूपाऽभ्युपगम्यते,
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy