SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ गमात्मकं च । तदाह वाचकमुख्यः – “अनधिगमविपर्ययौ च मिध्यात्वम् इति, तथाsपि 'धर्मेऽधर्मसंज्ञा ' इत्येवमादयो दश भेदा इवोपाधिभेदात्पञ्श्चैते भेदाः शास्त्रप्रसिद्धाः । तत्राभिग्रहिकम् - अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्बस्वाभ्युपगतार्थश्रद्धानम् । यथा बौद्धसांख्यादीनां स्वस्वदर्शनप्रक्रियावादिनाम् । यद्यपि वैतण्डिको न किमपि दर्शनमभ्युपगच्छति, तथाऽपेि तस्य स्वाभ्युपगतवितण्डावादार्थ एव निबिडाग्रहवत्त्वादाभिग्रह्निकत्वमिति नाव्याप्तिः । ' अनाकलिततत्त्वस्य ' इति विशेषणाद् यो जैन एव धर्मवादेन परीक्षापूर्वं तत्त्वमाकलय्य स्वाभ्युपगतार्थं श्रद्धत्ते तत्र नातिव्याप्तिः । यस्तु नाम्ना जैनोऽपि स्वकुलाचारेवागमपरीक्षां बाधते तस्याभिग्रहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् । तदुक्तं हरिभद्रसूरिभिः " पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः || ” " इति । यश्चागीतार्थो गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलितत्त्व एव स्वाभिगतार्थं जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं नाप्रज्ञापनीयताप्रयोजकम्, असद्ग्रहशक्त्यभावात्, किन्तु गुणवदाज्ञाप्रामाण्यमूलत्वेन गुणवत्पारतन्त्र्यप्रयोजकमित्यप्रज्ञापनीयताप्रयोजकत्वविशेषणान्न तत्रातिव्याप्तिः । स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानमनाभिग्रहिकम् । यथा 'सर्वाणि दर्शनानि शोभनानि ' इति प्रतिज्ञावतां मुग्धलोकानाम् । यद्यपि परमोपेक्षावतां निश्चयपरिकर्मितमतीनां सम्यग्दृष्टीनां स्वस्थाने सर्वनयश्रद्धानमस्ति, शिष्यमतिविस्फारणरूपकारणं विनैकतरनयार्थनिर्द्धारणम्याशास्त्रार्थत्वात् । तदाह संमतौ सिद्धसेनः " " 'णिययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण न दिवसमओवि भयइ सच्चे व अलिए व ।। निजकवचनीयसत्त्याः सर्वनयाः परविचालने मोहाः । तान् पुनर्न दृष्टसमयों विभजते सत्ये वा अलिके वा ॥ ( सम्मतितर्फे नयकाण्डः गा० २८ ) [ निजकवचनीये स्वांशे परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः समादयः परविचालने
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy