SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २१ तथाऽपि स्वस्वस्थान विनियोगलक्षणेन विशेषेण तेषां सर्वनयश्रद्धानमस्तीति नातिव्याप्तिः । विदुषोऽपि स्वरसवाहि भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकम् । स्वस्वशास्त्रबाधितार्थश्रद्धानं विपर्यस्तशाक्यादेरपीति तत्रातिव्याप्तिवारणाय भगवत्प्रणीतत्वं शास्त्रविशेषणम् । भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमिति सप्तमीगर्भसमासान्नातिव्याप्तितादवस्थ्यम्, तथाऽप्यना भोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दष्टावतिव्याप्तिः, अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात् । तथा चोक्तमुत्तराध्ययननियुक्ती "" सम्मदिट्टी जीवो उवङ्कं पवयणं तु सदहह । "2 सद्दहइ असम्भावं अणाभोगा गुरुणिओगा वा ॥ ( कर्मप्र . ) इति तद्वारणाय स्वरसवाहीति सम्यग्वक्तृवचनानिवर्त्तनीयत्वं तदर्थः । अनाभोगादिजनितं मुग्धश्राद्धादीनां वितथश्रद्धानं तु सम्यग्वक्तृवचन निवर्त्तनीयमिति न दोषस्तथाऽपि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य वस्तुनः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं विदुषोऽपीति — शास्त्रतात्पर्यबाधप्रतिसंधानवत इत्यर्थः । सिद्धसेनादयश्च स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसंघायापि पक्षपातेन न प्रतिपन्नवन्तः, किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनः । गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्धत्ते इति न दोषः । परविषयोन्मूलने मोहाः — मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् तदभावे स्वविषयस्याप्यव्यवस्थितेः, मतश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वम् । एवं तद्व्यतिरिक्तप्रा हकप्रमाणस्य चाभावात् तस्मात्तानेव नयान् पुनः शब्दस्यावधारणार्थत्वात् । नेति प्रतिषेधो विभजनक्रियायाः । दृष्टः समयः सिद्धान्तवाच्यमनैकान्तात्मकं वस्तुतत्त्वं येन पुंमा स तथा सन् विभजते सत्येतरतया, स्वतरविषयमवधारयमाणोऽपि तथा तन्न विभजते, अपि त्वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । ] सम्यग्दृष्टर्जीव उपदिष्टं प्रवचनं तु श्रद्धत्ते । श्रद्धत्ते असद्भावमनाभोगाद् गुरुनियोगाद्वा ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy