________________
२२
भगवचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम् । या सर्वाणि दर्शनानि प्रमाणं कानिचिद्वा, इदं भगवद्वचनं प्रमाणं नवेत्यादि । संशयानां मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभावो मा प्रासाङ्क्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम् । ते च नैवंभूताः, किन्तु भगवद्वचनप्रामाण्यज्ञान निवर्तनीयाः, सूक्ष्मार्थादिसंशये सति " तमेव सच्च णीसंकं जं जिणेहिं पवेइयं " इत्याद्यागमोदित भगवद्वचनप्रामाण्यपुरस्कारेण तदुद्वारस्यैव साध्वाचारत्वात् । या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्तते सा सांशयिक मिथ्यात्वरूपा सत्यनाचारापादिकैव । अत एव कालामोहोदयादाकर्षसिद्धिः ।
साक्षात्परम्परया च तत्त्वाप्रतिपत्तिरनाभोगम् । यथैकेन्द्रियादीनां तत्त्वातत्त्वानध्यवसायवतां मुग्धलोकानां च । यद्यपि माषतुषादिकल्पानां साधूनामपि साक्षात्तत्त्वाप्रतिपत्तिरस्ति, तथाऽपि तेषां गीतार्थनिश्रितत्वात्तद्गततत्त्वप्रतिपत्तिः परम्परया तेष्वपि सत्त्वान्न तत्रातिव्याप्तिः । तच्चाप्रतिपत्तिश्चात्र संशयनिश्चयसाधारणतत्त्वज्ञान सामान्याभाव इति न सांशयिकेऽतिव्याप्तिरिति दिकू ।
एतच्च पञ्चप्रकारमपि मिथ्यात्वं भव्यानां भवति । अभव्यानां त्वाभिग्रहिकमनाभोगो वेति द्वे एव मिथ्यात्वे स्याताम्, न त्वनाभिग्रहिकादीनि त्रीणि; अनाभिग्रहिकस्य विच्छिन्नपक्षपाततया मलाल्पतानिमित्तकत्वाद्, आभिनिवेशिकस्य व्यापन्नदर्शननियतत्वाद्, सांशयिकस्य च सकम्पप्रवृत्तिनिबन्धनत्वाद् अभव्यानां च बाधितार्थे निष्कम्पमेव प्रवृत्तेः; अत एव भव्याभव्यत्वशङ्काऽपि तेषां निषिद्धा । तदुक्तमाचारटीकायाम् – “ अभव्यस्य भव्याभव्यत्वशङ्काया अभावाद् इति ॥ ८ ॥
19
नन्वभव्यानामन्तस्तत्त्व शून्यानामनाभोगः सार्वदिको भवतु, आभिग्रहिकं तु कथं स्याद् ? इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्रहिकभेदानुपदर्शयति
१ तदेव सत्यं निःशङ्कं यजिनैः प्रवेदितम् ।