________________
" इति से परस्स अट्टाए कराई कम्माई वाले पकुव्वमाणे तण दुक्खेण मूढे विष्परियासमुवेइ"
इत्याचाराङ्गवचनात्कराणि कर्माणि परस्यार्थाय कुर्वतो हिताहितवुद्धयादिविपर्यासवतो हिंसादिदोषस्यापि भवान्तरे प्रायश्चित्तानुपपत्तिरेव स्यात् । अथ सर्वस्यैव पापस्य प्रमादेन कृतस्य विपर्यसाधायकत्वाद्विपर्यासजलसिच्यमानानां क्लेशपादपानां चानुबन्धफलत्वाद् भवान्तरेऽपि तथाभव्यत्वाविशेषात्कस्यचित्कदाचिद्विपर्यासनिवृत्त्यैवानुबन्धनिवृत्तेहिंसादिप्रायश्चित्तोपपत्तिरिति चेत् , तदिदमुत्सूत्रप्रायश्चित्तेऽपि तुल्यम् । न चैवमुत्सूत्रभाषणादनन्तसंसारानियमनात्ततो भयानुपपत्तिरिति शङ्कनीयम् , एकान्ताभावेऽपि बाहुल्योक्तफलापेक्षया हिंसादेरिवोत्सूत्रादास्तिकस्य भयोपपत्तेः। आस्तिक्यं ह्यसत्प्रवृत्तिभयनिमित्तमिति दिग्।
अनन्तसंसारिताऽशुभानुबन्धयोगादित्युक्तम्, अथाशुभानुबन्धस्य किं मूलम् ? के च तद्भेदाः ? इत्याहतामूलं मिच्छत्तं अभिग्गहिआइ तं च पंचविहं । भवाणमभव्वाणं आभिग्गहिअं वणाभोगो ॥८॥
तम्मूलंति । तस्यानन्तसंसारहेत्वशुभानुषन्धस्य मूलं मिथ्यात्वम् , उत्कटहिंसादिदोषानामपि मिथ्यात्वसहकृतानामेव तद्धेतुत्वात् , अन्यथा दोषव्यामूढताज्नुपपत्तेः । तचाभिग्रहिकादिकं पञ्चविधम् आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति पञ्चप्रकारम् । यद्यपि जीवादिपदार्थेषु तत्त्वमिति निश्चयात्मकस्य सम्यक्त्वस्य प्रतिपक्षभूतं मिथ्यात्वं द्विविधमेव पर्यवस्यति-जीवादयो न तत्त्वमिति विपर्यासात्मकं जीवादयस्तत्वमिति निश्चयाभावरूपानधि
तन्मूलं मिथ्यात्वमभिग्रहिकादि तच्च पञ्चविधम् ।
भव्यानाम् , अभव्यानामाभिग्रहिकं वाऽनाभोगः ॥८॥ १ इति स परस्यार्थाय क्रू आणि कर्माणि बालः प्रकुर्वन् तेन दुःखेग मूढो विपर्यासमुपैति ।