________________
१८
विपाकभावेन गर्हितमेतद् कुत्साऽऽस्पदम् दुष्कृतमेतद् धर्मबाह्यत्वेन, उज्झितव्यतद् यतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद्, 'एवमेतद्' इति रोचितं श्रद्धया-तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गर्हे कथम् ? इत्याहदुष्कृतमेतद्, उज्झितव्यमेतद् । अत्र व्यतिकरे 'मिच्छामि दुक्कर्ड' वारत्रयं पाठः । अथ हिंसादिकस्य पापस्य पारभविकस्यापि प्रायश्चित्तप्रतिपत्तिः स्थात्, न तूत्सूत्र भाषणजनितस्य, उत्सूत्र भाषिणो निह्नवस्य क्रियाबलाद्देवकिल्यिषिकत्वप्राप्तावपि तत्र निजकृतपापपरिज्ञानाभावेन दुर्लभघोषित्वभणनाद् ।
यदागमः
लडूण वि देवत्तं ववन्नो देवकिब्बिसे । तत्थवि से न याणइ किं मे किच्चा इमं फलं ॥ तत्तोवि से चइत्ता णं लब्भिही एलमूअगं । णरगं तिरिक्खजोणिं वा बोही जत्थ सुदुलहा ॥
एतत्तिर्यथा - लक्ष्णवित्ति । लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषनिकाये, तत्राप्यसौ न जानाति विशुद्धाध्यसायाभावात् किं मम कृत्वेदं फलं किल्बिषिकदेवत्वमिति । अस्य दोषान्तरमाह-तत्तोवित्ति । ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एडमूकताम् - अजभवानुकारि मनुष्यत्वम्, तथा नरः तिर्यग्योनिं वा पारम्पर्येण लप्स्यते । बोधिर्यत्र सुदुर्लभा - सकलसंपत्तिनिबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा ।
(
¿
प्राप्नोत्येडमूकताम्' इति वाच्ये असकृद्भदप्राप्तिख्यापनार्थ लप्स्यते' इति भविष्यत्कालनिर्देश इतिं चेद्, मैवम्, नहि तत्र निव एवाधिकृतः किन्तु तपः स्तेनादिः “ तेवतेणे वयतेणे " इत्यादि पूर्वगाथैकवाक्यत्वात्तस्याप्युत्कृष्टफलप्रदर्शनमेतद् न तु सर्वत्र सादृश्यनियमः, अध्यवसायवैचित्र्यात् । किं चैवम्
"
लब्ध्वाऽपि देवत्वं उपपन्नो देवकिल्विषिके । तत्रापि स न जानाति किं मम कृत्वेदं फलम् ॥ ततोऽपि स च्युत्वा लप्स्यते एडमूकताम् । नरकं तिर्यग्योनिं वा योनिर्यत्र सुदुर्लभा ॥ २ तपः स्तेनो व्रतस्तेनः ।