________________
१३२
"
मया सत्यं वक्तव्यम्, परिव्राजकवेषाभिप्रायेण कपिलापेक्षया त्वसत्यमित्येवं भावभेदादेवेदमुत्सूत्रमिश्रमिति चेत्, न, एतादृशभावयोरेकदाऽसंभवात् उपयोगथयौगपद्याभ्युपगमस्यापसिद्धान्तत्वाद् । एक एवायं समूहालस्वनोपयोग इति चेत्, तर्हि केन कस्य मिश्रत्वम् ? | नियमतः पदार्थद्वयापेक्षयैतदिति विषयभेदादेकत्रापि मिश्रत्वमिति चेत् । तर्हि गतं केवलेनोत्सूत्रेण, सर्वस्याप्यसत्याभिप्रायस्य धर्म्यंशे सत्यत्वात् "सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः” इति शास्त्रीयप्रवादप्रसिद्धेः । तर्हि प्रकार भेदादस्तु मिश्रत्वम्, एकत्रैव वचने सत्यासत्यबोधकत्वावच्छिन्नप्रकार भेदोपरक्ताभिप्रायापश्लेषादुत्सूत्रमिश्रत्वसंभवादिति चेत् । न, सूत्रकथनांशेऽभिप्रायस्य प्राबल्येऽनुत्सूत्रस्योत्स्चकथनांशे तत्प्राबल्ये चोत्सूत्रस्यैवं संभवान्मिथ्याव्यपदेशेन मिश्रस्थानवकाशाद् । अन्यथा 'क्रियमाणं न कृतम्' इत्यंशेऽसत्यं प्रतिपादयामि इतरांशे च सत्यमिति मिथ्याव्यपदेशेन वदतो जमाल्यनुसारिणोऽपि नोत्सूत्रं स्यात् किन्तूत्सूत्रमिश्रमिति महदसमञ्सजम् । अपि च- इदं मरीचिचचनमुत्सूत्रमिश्रमिति वदता मूलत एव जैनी प्रक्रीया न ज्ञाता । यतः सूत्रोत्सूत्रव्यवस्था तावच्छून भाव भाषामाश्रित्य क्रियते । स्रा च सत्यासत्यानुभयरूपत्वात् त्रिविधैव दशवैकालिकनिर्युक्त्यादिसिद्धान्तप्रतिपादिता । पराभिप्रायेण तु मिश्ररूपाया अपि तस्याः सिद्धौ भगवद्भद्रबाहूक्तविभागव्याघातप्रसङ्ग इति न किंचिदेतत् । इत्थं च मरीच्यपेक्षया मरीचेरनुत्सूत्रमेवेदं वचनं कपिलापेक्षया च विपर्यासबुद्धिजनकत्वज्ञानेऽपीत्यमुच्यमानमेतद्वचनं ममोत्सूत्रमिति परिज्ञानाभावात्कथंचिदना भोगहेतुकमुत्सूत्रमिति वदतो माता व मे वन्ध्या चेति न्यायापात इति द्रष्टव्यम् । किंच - तस्योत्सूत्राभोगो नासीदित्यपि दुःश्रद्धानम्, व्युत्पन्नस्य तस्य तादृशा स्पष्टवचनेऽप्युत्सूत्रत्वप्रत्ययावश्यकत्वाद् । न च साधुभक्तस्य तस्य तथोत्सूत्र भाषणमसंभाव्यमिति शङ्कनीयम्, कर्मपरिणतेर्विचित्रत्वाद् । अस्पष्टत्वं च तत्राभिमतानभिमतविधिनिषेधावधारणक्षमत्वलक्षणं न, उत्सूत्राभोगाभावात्; किन्त्वनभिमतनिषेधांशे देशविध्यारोपप्रयोजकतथाविधसंकले शात् । अत एव स्फुटाप्ररूपणमप्यस्पास्पष्टताख्यजातिविशेषशालिन्