________________
व्यम् । तथाहि-साधुधर्मे द्विरुक्तेऽपि साधुधर्मानभिमुखेन कपिलेन युष्मत्समीपे कश्चिद्धर्मोऽस्तीति पृष्टे, आवश्यकवृत्त्यभिप्रायेण तु भवदर्शने किंचिद्धर्मोस्तीति पृष्टे अहो ! अयं प्रचुरकर्मा द्विरुक्तोऽपि साधुधर्मानभिमुखो मदुचितः सहायः संवृत्त इति विचिन्त्य मम देशविरतिधर्मोस्तीत्यभिप्रायेण मनागिहाप्यस्तीति मरीचिरुक्तवान् । तत्र मरीचेयदि देशविरतिविमर्शना नाभविष्यत् तर्हि मनागिति नाभणिष्यत् । एतद्वचनं परिव्राजकवेषे सति परिव्राजकदर्शने किंचिद्धर्मव्यवस्थापक संपन्नम् । इह शब्दस्यास्पष्टार्थवाचकत्वेन श्रोतुः कपिलस्य परिव्राजकदर्शनेऽपि किंचिद्धर्मोऽस्तीत्यवबोधात्, अन्यथा कपिलः परिव्राजकवेषं नाग्रहीष्यत् , तस्य धर्मचिकीर्षयैव तद्वेषोपादानात् , राजपुत्रत्वे नान्यत्कारणसंभवात् , ततश्च कापिलीयदर्शनप्रवृत्तिः। सा च कपिलस्य मरीचरन्येषां च महानर्थकारणम् , कुप्रवचनरूपत्वात् । तदेवंभूतं व चनमुत्सूत्रमिश्रं, मरीच्यपेक्षया सूत्रत्वेऽपि कपिलापेक्षया ( उत् ) सूत्रत्वात् । मम पार्वे मनाग धर्मोऽस्तीति देशविरतस्य मरीचेरभिप्रायान्मरीच्यपेक्षया हि सत्यमेवैतत् , परिव्राजकदर्शने धर्मोऽस्तीति कपिलस्य बुद्धिजनकत्वेन कपिलापेक्षया चासत्यरूपमेवेति ।
तदसत् , उत्सूत्रकथनाभिप्रायेण प्रवृत्तस्यास्य वचनस्य मायानिश्रितासत्यरूपस्योत्सूत्रत्वाद् । आपेक्षिकसत्यासत्यभावाभ्यामुत्सूत्रमिश्रितत्वाभ्युपगमे च भगवद्वचनस्यापि तथात्वप्रसङ्गात् । तदपि हि भगवतस्तद्भक्तानां चापेक्षया सत्यं पाखण्डिनां चापेक्षयाऽसत्यमिति । अथ भगवता वचनं परस्यासत्यबोधाभिप्रायेण न प्रयुक्तमिति नोत्सत्रम् , मरीचिना तु प्रकृतवचनं कपिलस्यासत्यबोधाभिप्रायेणैव प्रयुक्तम्। स येवं ज्ञातवान-एतन्मद्वचनं कपिलस्य परिव्राजकदर्शने धर्मबुद्धिजनक भविष्यतीत्येवमेवायं बोधनीय इति, कथमन्यथाऽस्य परिव्राजकवेषमदास्यद् ? इति महद्वैषम्यमिति चेत् । हन्त तर्हि उत्सूत्रमेवेदं प्राप्तमिति गतमुत्सूत्रमिश्रेण । द्रव्यतोऽसत्यस्य किशलयपाण्डुपत्राद्युवापरूपसूत्रवचनस्यैव द्रव्यतः सत्यस्य प्रकृतवचनस्योत्सूत्ररूपस्यापि मिश्रत्वायोगात् शुद्धाशुद्धद्रव्यभावाभ्यां मिश्रत्वाभ्युपगमे जिनपूजादायपि मिश्रपक्षाभ्युपगमप्रसङ्गाच । अथ देशविरत्यभिशयेण मदपेक्षया