________________
सम्यक्त्वगुणविशेषप्रदर्शनार्थ मिथ्यादृग्गुणमात्रस्य शास्त्रेऽकिंचिकरत्वप्रतिपादनं नैतावता सर्वथा तद्विलोप एव सिध्यति, चारित्रगुणविशेषप्रदर्शनार्थ
"दसारसीहस्स य सेणियस्स पेढालपुत्तस्स य सच्चइस्स । - अणुत्तरा दंसणसंपया सिया विणा चरित्तेण हरं गई गया ॥"इत्यादिना सम्यक्त्वस्यापि तत्प्रतिपादनादिति द्रष्टव्यम् ॥४३॥
तदेवमन्येषामपि मार्गानुसारिगुणानामनुमोद्यत्वसिद्धौ सम्यग्दृशाऽन्येषां गुणा नानुमोद्या एवेत्युत्सूत्रं त्यक्तव्यम् , स्तोकस्याप्युत्लूत्रस्य महानर्थहेतुत्वादित्युपदेशमाहता उस्मुत्तं मुत्तुं अणुमोइजा गुणे उ सबसि। जं.थोवावि तओ लहेज दुख्खं मरीइव्व ॥४४॥
ता उस्सुत्तति । तत् तस्मात्कारणादुत्सूत्रं मुक्त्वा, तुरेवकारार्थः स च “सर्वेषाम्' इत्यनन्तरं योज्यः; सर्वेषामेव गुणाननुमोदेत; भव्य इति शेषः । यद् यस्मात्स्तोकादपि तत उत्सूत्रान्मरीचिरिव दुःखं लभते । मरीचिर्हि " कैविला इत्थंपि इहयंपि” इति स्तोकादप्युत्सूत्रात्सागरोपमकोटाकोटीमानसंसारपरिभ्रमणजन्यदुःखं लब्धवान् , सतो यो मार्गानुसार्यनुमोदनां लुम्पन्नुत्सूत्रसहस्रवादी तस्य किं वाच्यमिति भावः ॥ - अत्र केचिदाहुमरिचिरुत्सूकाद् दुःखं लब्धवानिति वयं न सहामहे, उत्सूत्रस्य नियमतोऽनन्तसंसारकारणत्वात् , तेन चासंख्येयसंसाराजनात् , तत उत्सूत्रमिश्रितमेवेदं मरीचिवचनं नतृत्सूत्रमिति प्रतिपत्त
तत उत्सूत्रं मुक्त्वाऽनुमोदेत गुणान् सर्वेषाम् तु ।
यत्स्तोकादपि ततो लभेत दुःखं मरीचिरिव ॥ ४४ ॥ १ दशारसिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकेः ।
अनुत्तरा दर्शनसम्पद् स्याद् विना चारित्रेणाधरां गतिं गता,॥ . ३ कपिल ! इत्थमप्यत्रापि ।