________________
१३३
सूत्ररूपण एव पर्यवस्यति । तदुक्तं पाक्षिकसप्ततिकावृत्तौ - उत्सूत्र'प्ररूपणायाः संसारहेतुत्वात् ।
यथोक्तम्
फुडपागडम कहंतो जहट्ठियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरामरणमहो अहिआसि ॥ " ि
किंच-इहत्ति देशविरत्यभिप्रायेण वोक्तमिति निर्णीतम् । उपदेशमालावृत्तौ " कपिल ! इहान्यात्रपीति ” मत्संबन्धिन साधुसंबन्धिनि चानुष्ठाने धर्मोऽस्तीति भणनात् । न च तत्र 'साधुसंबन्धिनि ' इति भणनेन ' मत्संबन्धिनि देशविरत्यनुष्ठाने धर्मोऽस्ति ' इत्येवाभिप्राय इति वाच्यम् | जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौ - मार्गे जैनेsपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते इति हैमवीरचरित्रवचनात्खमार्गेऽपि तेन धर्माभिधानात् । स्वमार्गश्च तस्य स्वपरिगृहीतलिङ्गाचारदक्षणं कापिलदर्शनमेव । तत्र च मार्गे नियतकारणताविशेषसंबन्धेन धर्ममात्रमेव नास्ति कुतो देशविरत्य नुष्ठानम् ? इत्युत्सूत्रमेवैतदिति । अनियमाभिप्रायेण त्वस्योत्सूत्र परिहारेऽम्यलिङ्गः दि सिद्धाभ्युपगमाच्चारित्रादेरपि तत्राभ्युपगमापत्तिरिति न किंचिदेतत् । एतेन कविला 'इत्थंपि'त्ति अपिशब्दस्यैवकारार्थत्वान्निरुपचरितः खल्वत्रैव साधुमार्गे, 6 इहयंपि' त्ति स्वल्पस्त्वन्नापि विद्यते । स ह्येवमाकर्ण्य तत्सकाश एव प्रव्रजितः। मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तित इति ज्ञानसागरसूरिवचनमपि व्याख्यातं तत्रापि मार्गभेदाभिप्रायेणैव धर्मभेदाभिधानाद् । नहि साधुश्रावकयोर्मार्गभेदेन धर्मभेदः संभवदुक्तिको - पीति विचारणीयम् ।
यत्तु मरीचिवचनमिदमावश्यकनियुक्ती दुर्भाषितं नतृः सूत्रमिति नेदमुत्सूत्रं वक्तव्यमिति केनचिदुच्यते । तदसत् दुर्भाषितपदस्या नागमिकार्थोपदेशे रूढत्वात्, तदुत्सूत्रताया व्यक्तत्वात् । तदुक्तं पञ्चाशक सूत्रवृत्यो:
१
स्फुटप्रकटमकथयन् यथास्थितं बोधिलाभमुपहन्ति । सथा भगवतो विशाल जरामरणमहों अधिकमासीत् ( ? )