________________
तुल्लेवि तेण दोसे पक्खविसेसेण जा विसेसुत्ति। सा णिस्सियत्ति सु-तुत्तिपणं तं विति मज्झत्था॥४॥ .तुल्लेवित्ति । तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन तुल्येऽप्युसूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः - 'खपक्षपतितस्य यथाछन्दस्यापरमार्गाश्रयणाभावान्न तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्' इति,सा विशेषोक्तिर्निश्रिता पक्षपातगभ॑तिः तां सूत्रोत्तीर्णाम गमबाधितां ब्रुषते मध्यस्थाः। आगमे ह्यविशेषेणैवान्यथावादिनासन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्स्वभाषिणोऽनन्तसंसारित्वनियमो न तु स्वपक्षपतितस्य यथाछन्दादेरिति ॥४॥ । नन्वस्त्ययं विशेषो यत्परपरागतस्योत्सूत्रभाषिणो 'वयमेव जैना अन्ये तु जैनाभासाः' इत्येवं तीर्थोच्छेडाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वान्नियमेनान्तसंसारित्वम् , स्वपक्षगतस्य तु व्यवहारतो मार्ग. पतितस्य नायमभिप्रायः संभवति, तत्कारणस्य जैनप्रवचनप्रतिपशभूतापरमार्मस्याङ्गीकारस्याभावाद् इत्यत आहतित्थुच्छेओ व्व मओ सु-तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो भयणिजो तत्थ भाववसा ॥५॥
तित्थुच्छेओत्ति । तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि' इत्युपदर्शने उन्मार्ग एव मतः। तथा चोन्मार्गपतितानामुत्सूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणमरूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामुत्सूत्रभाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्याद्, विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषात् , तथा च द्वयोरप्युन्मार्गः समान एव ।
४ तुल्येऽपि तेन दोषे पक्षविशेषेण या विशेषोक्तिः ।
सा निश्रितेति सूत्रोत्तीर्णा तां ब्रुवते मध्यस्थाः ॥ तीर्थोच्छेद इव मतः सूत्रोच्छेदोऽपि हंदि उन्मार्गः। . संसारश्चानन्तो भजनीयस्तत्र भाववशाद ॥५॥