SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मूलं मध्यस्थत्वमेव जिनोक्तम् , अज्ञातविषये माध्यस्थादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्त्वोपलम्भप्रसिद्धेः। ...... ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव । .. ... तदुक्तम्" सुनिश्चित मत्सरिणो जनस्य न नाथमुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः"॥ इति कथं तद्भवद्भिः परीक्षानुकूलमुच्यते ? इति चेत् । सत्यम् , स्फुटातिशयशालिपरविप्रत्तिविषय पक्षद्वयान्यतरनिरिणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि खाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य तदनुकूलत्वात् ॥२॥ ___ अथ मध्यस्थः कीदृग्भवति ? इति तल्लक्षणमाह-- मज्झत्थोअअणिस्सियववहारीतस्स होइ गुणपक्खो। णो कुलगणाइणिस्सा इय ववहारंमि सुपसिद्धं ॥३॥ मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्यवहारी च । तत्र निश्रा रागः, उपश्रा च द्वेष इति रागद्वेषरहितशास्त्रप्रसिद्धाभाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारी त्यर्थः । अत एव तस्य मध्यस्थस्य गुणपक्षो “गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छा इनयाऽसद्भूतगुणोद्धावनया च पक्षपातरूपा। तथा कुलगणादिना वितशस्यासद्भूतदोषोद्भावनया सद्भुतगुणाच्छादनयाऽपि चोपश्राऽपि न भवति इत्यपि द्रष्टव्यमित्येतद् व्यवहारग्रन्थे सुप्रसिद्धम् , निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित्तोपदेशात् ॥३॥ इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिविष्टस्य पक्षपातवचनं तन्मध्यस्थैङ्गिीकरणीयमित्याह मध्यस्थवानिश्रितव्यवहारी तस्य भवति गुणपक्षः। नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् ॥३॥ * ' विषये ' इति कपुस्तके।
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy