________________
पणमियत्ति। प्रणम्य-प्रकर्षेण भक्तिश्रद्धाऽतिशयलक्षणेन नत्था पार्वजिनेन्द्रम् , अनेन प्रारिप्सितप्रतिषन्धकदुरितनिरासार्थ शिष्टाचारपरिपालनार्थं च मङ्गलमाचरितम् । धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्थंभूतो वेति विशेषनिर्धारणप्रकारं प्रवक्ष्ये। प्रेक्षावत्प्रवृत्युपयोगिविषयाभिधानप्रतिज्ञेयम् । प्रयोजनादयस्तु सामर्थ्यगम्याः, धर्मप्रतिपादकस्यास्य ग्रन्थस्य. धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति । किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम् , तथाऽऽगमयुक्तिभ्यां-सिद्धान्ततर्काभ्यामविरुद्धमबाधितार्थम् । एतेनाभिनिवेश मूलकस्वकपोलकल्पनाशङ्का परिहृता भवति । इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनर्थाय । यावानेव ह्यर्थः सुनिश्चितस्तावानेवानेन निरूपणीयः, न तु कल्पनामात्रेण यत्तदसंबद्धप्रलापो विधेय इति मध्यस्थाः । अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभीरवो माहत्य दूषयन्ति गीतार्थाः। तदुक्तं धर्मरत्नप्रकरणे
जं च ण सुत्तेहिं विहियं णय पडिसिद्धं जणंमि चिररूढं ।।
समइविगप्पिअदोसा तंपि ण दूसंति गियत्था ॥ ततश्च माध्यस्थमेव धर्मपरीक्षायां प्रधानं कारणमिति फलितम् ॥१॥
एतदेव आहसो धम्मो जो जीवं धारेइ भवण्णवे निवडमाणं । तस्स परिक्खामूलं मज्झत्थत्तं चिय जिणुत्तं ॥२॥
सो धम्मोत्ति । यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भदानेन धारयति स धर्मो भगवत्प्रणीतः श्रुतचारित्रलक्षणस्तस्य परीक्षा___ २ स धर्मो यो जीवं धारयति भवार्णवे निपतन्तम् ।
तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम् ॥ १ यश्च न सूत्रविहितं न च प्रतिषिद्धं जने चिररूढम् ।। स्वमतिविकल्पितदोषास्तदपि न दूषयन्ति गीतार्थाः ॥ .