________________
संसारस्त्वनन्तस्तत्र भावविशेषाङ्गजनीयः, अध्यवसायविशेष प्रतीत्य संख्यातानन्तभेदभिन्नस्य तस्याहंदाद्याशातनाकृतामप्यभिधानात् । तथा च महानिशीथसूत्रम्
. " 'जेणं तित्थकरादीगं महतिं आसायणं कुआ, से णं अज्झक्सायं पड्डुच जाव णं अणंतसंसारिअत्तणं लभिजत्ति"।
इत्थं चोत्सूत्रभाषिणांनियमादनन्तः संसार इति नियमः परास्तः। किं च कालीदेवीप्रमुखाणां षष्ठाङ्गे “अंहाछंदा अहाछंदविहारिंगीउचि" पाठेन ययाच्छन्दत्वभणनादुत्सूत्रभाषित्वं सिद्धम् ।
" उस्सुत्तमायरंतो उस्सुत्तं चेव पण्णवेमाणो ।
एसो उ अहाछंदो इच्छाछंदुत्ति एगठा ॥" इत्यावश्यकनियुक्तिवचनात् तासां चैकाक्तारत्वं प्रसिद्धमिति नायं नियमो युक्तः।
यतन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनान्तसंसारः, प्रतिसमयं तीर्थोच्छेदाभिप्रायेण साम्यात्। यथाछन्दस्तु क्वचिदंशेनाभोगादेवोत्तूत्रभाषी स्थात्, तस्थानाभोगोऽपि प्रायः सम्यगागमस्वरूपापरिणतेः, न च तस्य तदुत्सूत्रभाषणमनन्तसंसारहेतुः, तीर्थोच्छेदाभिप्रायहेतुकस्यैव तस्यानन्तसंसारहेतुत्वादिाते। तदसंबद्धम् , एतादृशनियमाभावाद । नान्मार्गपतिताः सर्वेऽपि तीर्थोच्छेदपरिणामवन्त एव, सरलपरिणामानामपि केषांचिद्दर्शनाद् । न च यथाछन्दा. दयोऽनाभोगादेवोत्सूत्रभाषिणः, जानतामपि तेषां बहूनां सुविहित. साधुसमाचारपद्वेषदर्शनात् ।
यस्त्वाह-यथाछन्दत्वभवनहेतूनां पार्श्वस्थत्वभवनहेतूनामिव नानात्वेनागमे भणितत्वाद् यथाछन्दमात्रस्योत्सूत्रभाषित्वनियमोऽप्रमाणिकै(क?) इति । तदरमणीयम् , आगम एव यथाछन्दस्योत्सूत्रप्ररूपणाया नियतव्यवस्थाप्रदर्शनात् । १ येन तीर्थकरादीनां महतीमाशातनां कुर्यात् ,स्याध्यवसायं प्रतीत्य याव
दनन्तसंसारित्व लभेत ॥ २ यथाछन्दा यथाछन्दविहारिणी त्विति ॥ ३ उत्सूत्रमाचरन् उत्सूत्रं चैव प्रज्ञापयन् ।। एष तु यथाच्छन्ह इच्छाछन्द इत्येकाओं ॥ . . . . . . . .
पात