SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४३ " णितम्, तथा च सिद्धं क्षीणमोहस्यापि मृषा भाषणम्, तच्च छद्मस्थत्वावबोधकं लिङ्गमेव, तत्कथमुच्यते छद्मस्थत्वज्ञापक लिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति ? इति चेद् । मैत्रम्, छद्मस्थज्ञानगोचरस्यैव मृषाभाषणस्य लिङ्गत्वेनाभिमतत्वात् । तच्च द्रव्यतो मृषाभाषणं क्षीणमोहस्य न भवति, क्रोधादिजन्यत्वाद् । यदागमः - " सर्वं भंते! मुसावायं पञ्चवक्खामि । से कोहा वा लोहा वा, भया वा, हासा वा, ” इत्यादि क्षोणमोहस्य च क्रोधादयो न भवन्तीति कारणाभावाद् द्रव्यतो मृषाभाषणस्याभावः ; तथा च भावतो मृषाभाषणस्य सुतरामभावः, तस्य मोहनीयोदयजन्यत्वात् । तथा च क्षोणमोहमात्रस्य द्रव्यतो भावतो वा मृषाभाषणं न भवत्येव; संयतानां जीवधातादावना भोगसहकृत मोहनीयकर्मणो हेतुत्वात्; मोहनीयाभावे चानाभोगो वास्तव - मृषाभाषणं प्रत्यकारणं सन्नपि सम्भावनारूढमृषाभाषणं प्रति कारणं भवत्येव, अनाभोगस्य तथास्वभावस्यानुभवसिद्धत्वात् तेन क्षीणमोहस्याप्यनाभोगहेतुकं सम्भावनारूढजीवविराधनावन्मृषाभाषणमपि भवत्येव; तच्च छद्मस्थज्ञानागोचरत्वेन छद्मस्थत्वावबोधकं लिङ्गं न भवति, तस्य केवलज्ञानगम्यत्वात्; न च सम्भावनारूढस्य मृषाभाषणस्य मृषाभाषणत्वव्यपदेशो न भविष्यतीति शङ्कनीयम्, सम्भावनारूढं मृषाभाषणमिति भणित्वापि मृषाभाषणव्यपदेशो न भविष्यतीति भणतो वदव्याघातापत्तेः । किश्च - जैनानामलोकेऽपि कल्पितलोकस्याङ्गीकारे कल्पनाया इव सम्भावनाया अपि प्रामाण्यमेव, तत एव कालशौकरिकस्य कल्पितमहिषव्यापादनं महिषव्यापादनतया भगवता श्री महावीरेण भणितमिति प्रवचने प्रसिद्धिः; तस्मात् कर्मबन्धहेतुत्वेऽपि सम्भावनारूढमृषाभाषणस्य स्नातकचारित्रप्रतिबन्धकत्वेन द्रव्यमृषाभाषणस्येव दोषत्वम्, चित्रलिखितायां नार्या नारीत्वव्यपदेशस्येव मृषावादव्यपदेशस्य च विषयत्वं प्रतिपत्तव्यमिति न दोष इति; तस्माद् यावदुपशान्तवीतरागमेव छद्मस्थत्वज्ञापकानि लिङ्गानीति स्थितम् । तानि च प्रत्यक्षगम्यानि मिथ्याकारादिलिङ्गगम्यानि वा; अयं साधुः साक्षात् सम्भावनया वा प्राणातिपातादिप्रतिषेवितैव मिथ्याकारान्यथानुपपत्तेः अस्मदादिवद्-इत्येवं लिङ्गगम्येनापि प्राणातिपातादिना लिङ्गेन ' छद्मस्थोऽयं संयतः १ इत्येवं निश्चयसम्भवात् । स च मिथ्याकारः कादाचित्क एव जीवघातादौ भवति, पुनरकरणाभिप्रायेण तस्य फलवत्वात्, सार्वदिकस्य तु तस्य सम्भवे सर्वविरतिपरिणामस्यैवानुपपत्तिः; प्रतिसमयमनवरतं जीवघातो भवत्येव इत्यभिप्रायस्य "
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy