________________
६३
ता भावत्ययऊ जो सो दव्वत्थओ इहं इहो । जो उण णेवं भूस अप्पहाणो परं होई ||
11
इति ।
यदि च भावलेशयोगाद्व्यवहितस्यापि द्रव्यस्तवत्वमविरुद्धं तदा तत एव तादृशस्य मार्गानुसारिणो द्रव्याज्ञाप्यविरुद्वैव । यथाहिनिर्निदानं सूत्रविधिलक्षणेन भावस्तवानुरागलक्षणेन वा प्रकारेण जिन भवनाद्युचितानुष्ठानस्य द्रव्यस्तंवत्वमत्र्याहृतम्, एकान्तेन भावशून्यस्यैव विपरीतत्वात् । तथा अपुनर्बन्धकस्यापि भावाज्ञानुराग-भावलेशयुक्तस्य व्यवधानेऽपि द्रव्याज्ञाया न विरोध इति । अत एव भवाभिष्वङ्गाना भोगासंगतत्वात् अन्यावर्तापेक्षया विलक्षणमेव चरमावर्ते गुरुदेवादिपूजनं व्यवस्थितम् । तदुक्तं योगविन्दौ -
एतद् युक्तमनुष्ठानमन्यावर्तेषु तद् ध्रुवम् । चरमे त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥ एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतर भेदेन भोजनादिगतं यथा ॥ इत्थं चैतद् यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः || विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमपेक्षादिविधानतः ॥ विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् । महतोऽल्पार्थनाद् ज्ञेयं लघुत्वापादनात्तथा ॥ दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः । एतद्वितिनीत्यैव कालान्तरनिपाननात् ॥ अनाभोगवत चैतदननुष्ठानमुच्यते । संप्रमुग्धं मनोऽस्येति ततचैतद् यथोदितम् ।। एतद्ागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ॥ जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ॥