SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६२ दितः । स हि मिथ्यात्वोपघातात्समुपात्तविपरीतरुचिः तच्चं च सद्भूतदेवतादिकमर्हस्यादिलक्षणम्, 'निंद' त्ति इतरबातस्त्वं तत्कुयुक्तिसमुपन्यासेन पुरस्करोति ततस्तच्वेतर निन्दनादितो दोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तस्यैव स्यादित्युपदेशपदवचनान्तरमनुसृत्यात्रानादिप्रवाहपतितस्य यथाप्रवृत्तकरणस्य चरमविभागः सम्यक्त्वप्राप्तिहेतुकर्मक्षयोपशमलक्षितावस्थाविशेषस्तद्वतां संनिहितग्रन्थिभेदानां स्वल्पकालप्राप्तव्यसम्यक्त्वानामत्यन्तजीर्णमिथ्यात्वज्वराणां सुन्दरप्रवृतिरिति भणनेन तद्व्यतिरिक्तानां तु सर्वेषामपि मिथ्यादृशामसुन्दर प्रवृत्तिरेवोक्तेति सूक्ष्मदृशा पर्यालोच्यमिति तेनोक्तम् । तत्रेदं विचारणीयम् - चरमत्वं यथाप्रवृत्तकरणस्यानन्तपुद्गलपरावर्त भाविनश्वरमैकावर्तमात्रेणापि निर्वाह्यम्, संनिहितग्रन्थिभेदत्वस्य तु स्वल्पकालप्राप्तव्यसम्यक्त्वाक्षेपकता । 46 आसन्ना चेयमस्योच्चैश्वरमाचर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किंचन ॥ आसन्ना चाभ्यर्णवर्तिन्येव इयमुक्तिरस्योच्चैरतीय चरमावर्तिनश्वरमपुद्गलपरावर्तभाजो जीवस्य यतः कारणाद् भूयांसोऽतीव बहवोऽमी आवर्ता व्यतिक्रान्ता अनादौ संसारे व्यतीतास्तत एकोऽपश्चिमोऽत्र 'न किंचन ' न किंचिद्भयस्थान - मेष इत्यर्थः 77 इति योगबिन्दुसूत्रवृत्तिवचनाच्चरमावर्तिन आसन्न सिद्धिकत्वस्यापि स्वल्पकालप्राप्तव्यसिद्ध्याक्षेपकत्वापत्तेः, आपेक्षिकासन्नतया समाधानं चोभयत्र सुघटमिति अथैकभविकाद्यचितयोग्यतानियतत्वाद् द्रव्याज्ञायाः सम्यक्त्वप्राप्त्यपेक्षया तदधिकव्यवधाने मिथ्यादृशो न मार्गानुसारितेत्ति निश्चीयते इति चेद् | न, असति प्रतिबन्धे परिपाके वा पुनर्बन्धकादेर्मार्गानुसारिणोऽभावाज्ञाव्यवधानेऽपि सति प्रतिबन्धादौ तद्वयवधानस्यापि संभवात् तत्कालेऽपि भावाज्ञाबहुमानाप्रतिघातात्, उचितप्रवृत्तिसारतया द्रव्याज्ञाया अविरोधाद्, अन्यथा चारित्रलक्षणाद् भावस्तवादेकभविकाद्यधिकव्यवधाने द्रव्यस्तवस्याप्यसंभवप्रसङ्गाद् भावस्तवहेतुत्वेनैव द्रव्यस्तवत्वप्रतिपादनात् । तदुक्तं पञ्चाशके "
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy