________________
इतरथापि विधैः सदापालनामन्तरेणापि, हन्दीति पूर्ववत् , एतस्मिन् ग्रन्थिभेदे कृते सत्येष वचनप्रयोग आरोग्यसाधकश्चैवभावारोग्यनिष्पादक एव संपद्यते । तथा च पठ्यते---
" लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति __सम्यक्त्वरत्नमतवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ
तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ।। अत्र हेतुमाह- पुद्गलानामौदारिक- तेजस- भाषा-ऽऽनप्राण-मनः कर्मप्रहणपरिणतानां विवक्षितकालमादौ कृत्वा यावतां सामस्त्येनकजीवस्य ग्रहनिसर्गों संपद्यते स कालः पुद्गलपरावर्त इत्युच्यते, पुद्गलग्रहणनिसर्गाभ्यां परिवर्तन्ते परापरपरिणतिं लभन्ते तस्मिनिति व्युत्पत्तेः , तस्यार्द्ध यावद् यद् यस्मादूनं किंचिद्धीनम् , एतस्मिन् ग्रन्थिभेदे सति संसारिजीवानां तीर्थकराद्याशातनाबहलानामपि ।। अत्र दृष्टान्ताः कूलवालकगोशालकायो वाच्या इति । एवं चोत्कर्षतोऽप्यपार्धपुद्गलपरावर्तावशेषसंसारस्यैव मार्गानुसास्त्विमिति यत्केनचिदुक्तम् , तत्केनाभि-- प्रायेणेति विचारणीयं मध्यस्थैः । न वमपुनर्बन्धकापेक्षया कालभेदेन ग्रन्थिभेदस्य पुरस्करणमुपपद्यते, पराभिप्रायेणापापुद्गलावर्तकालमानस्योभयत्राविशेषाद् एवं वदतो भ्रान्तिमूलं तावच्चरमयथाप्रवृत्तकरणभागभाज़ामेवापुनर्बन्धकादीनामधिकारित्वभणनम् , तादृशानां तेषां सम्यक्त्वसंनिहितत्वाद् । अत एव
" भवहेउनाणमेयस्स पायसो. सप्पविचिभावेणं ।
तह तयणुबंधओ चिय तत्तेपरनिंदणाइओ ॥" भवहेतुः संसारनिबन्धन ज्ञान-शास्त्राभ्यासजन्यो बोध एतस्य मिथ्यादृष्टेः,, कथम् ? इत्याह-प्रायशो बाहुल्येन, असत्प्रवृत्तिभाबेन-विपर्यस्तचेष्टाकरणात् ,. तस्य यदिह प्रायोग्रहणं तद् यथाप्रवृत्तकरणचरमविभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केषांचिदुःखितदया-गुणवदद्वेष-समुचिताचारप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारतारणार्थम् । तथेति हेत्वन्तरसमुच्चये। तदनुबन्धत एवासत्प्रवृत्यनुषन्धादेष । एतदपि कुतः ? इत्याह-तत्त्वेतरनिन्दना
भवहेतुज्ञानमेतस्य प्रायशोऽसत्प्रवृत्तिभावेन । तथा तद्नुबन्धत एव तत्त्वेतरनिन्दनादितः ॥.