________________
णिच्छयओ पुण एसो विन्नेओ गंठिभेअकालंमि ।
एयंमि विहिसयपालणाउ आरोग्गमेयाओ" घनं-महामेघावलुप्तसकलनक्षत्रादिग्रभाप्रसरभाद्रपदाधमावास्या मध्यभागसमुद्भूतान्धकारनिबिडं मिथ्यात्वं-तत्त्वविपर्यासलक्षणं यत्र स तथा, कालचरमपुद्गलपरावर्तव्यतिरिक्तशेषपुद्गलपरावर्तलक्षणः, अत्र-वचनौषधप्रयोगे, अकालस्तुअकाल एव भवति ज्ञातव्यः। चरमपुद्गलपरावर्तलक्षणस्तु तथाभव्यत्व्परिपाकतो घीजाधानोद्भदपोषणादिषु स्यादपि काल इति । अत एवाह-कालस्त्वयसरः पुनरपुनर्बन्धकप्रभृतिः । तत्रापुनर्बन्धकः “पावं ण तिव्वभावा कुणइ " इत्यादिलक्षणः आदिशब्दान्मार्गाभिमुख-मार्गपतितो गृह्यते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरुपितः । 'मग्गदयाणं " इत्याद्यालापकव्याख्यायां मार्गश्चेतसौऽवक्रगमनम् , भुजंगमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषौ हेतु-स्वरूप फलशुद्धामुखेत्यर्थः, तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागभाजावैव विज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिर्निर्दिष्टो व्यवहारत इति । निश्चयतो निश्चयनयमतेन पुनरेप पचनौषधप्रयोगकाले विज्ञेयः । कः ? इत्याह ग्रन्थिभेदकालस्तु ग्रन्थिभेदकाल एव, यस्मिन् काले पूर्वकरणानिवृत्तिकरणाभ्यां ग्रथिर्भिन्ना भवति तस्मिलवेत्यर्थः। कुतः १ यत एतस्मिन् ग्रन्धिभेदे सति विधिना-अवस्थोचितकृत्यकरणलक्षपोन, सदा सर्वकालं या पालना च वचनौषधस्य, तया कृत्वाऽऽरोग्यं-संसारध्याधिरोधलक्षणम् , एतस्माद्वचनौषधप्रयोगाद् भवति । अपुनर्बन्धकप्रभृतिषु पचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकः, अनाभोगबहुलत्वात्तकालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्ताहत्वेन निपुणबुद्धितया तेषु कृत्येषु वर्तभानास्तत्कर्मव्याधिसमुच्छेद्का जायन्त इति । ग्रन्थिभेदमेव पुरस्कुर्वन्नाह
" इहरावि हंदि एअंमि एस आरोग्गसाहगो चेव । पोग्गलपरिअट्टद्धं जमूणमेअंमि संसारो ॥ निश्चयतः पुनरेष विज्ञेयो प्रन्धिभेदकाले ।
एतस्मिन् विधिशतपालनया आरोग्यमेतस्मात् ॥ २ पापं न तीवभावात्करोति ।।
इतरथाऽपि खलु एतस्मिन्नेष आरोग्यसाधकश्चैव । पुद्रलपरावर्तार्द्ध यदूनमेतस्मिन् संसारः ॥