________________
नियता मार्गानुलारिताहेतवः, क्रिया तु क्वचिदुभयाभिमता, क्वचिच्च. स्वसमयाभिलतेत्यनियता, हेतुः परकीयसंमतेर्निजमार्गदायहेतुत्वं वा. व्युत्पन्नमभिनिविष्टं वा प्रति, न तु व्युत्पन्नमनभिनिविष्टं प्रतीति । ___यत्तु निश्चयतः परसमयबायानामेव संगमःनयसाराम्बडप्रमुखानां मार्गानुसारित्वं स्यात् , नान्येषामिति केषांचिन्मतम् , तत्तेषामेव प्रतिकूलम् , सद्ग्रहप्रवृत्तिजनितनैश्चयिकपरसमयबाह्यतया पतञ्जल्यादीनामप्यम्बडादीनामिव मार्गानुसारित्वाप्रतिघातात् । इयानेव हि विशेषो यदेकेषामपुनर्बन्धकत्वेन तथात्वम् , अपरेषां तु श्राद्धत्वादिनेति ॥१६॥
अयं मार्गानुसारिभावः कदा स्यात् ? इत्येतत्कालमानमाहमग्गाणुसारिभावो जायइ चरममि चेव परिअट्टे । गुणबुड्डीए विगमे भवाभिनंदिदोसाणं ॥ १७ ॥ मग्गाणुसारिभावोत्ति । भवाभिनन्दिदोषाणाम्
" क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान शटः ।
अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसंगतः ॥" इति श्लोकोक्तानां विगमे सति गुणवृद्धया चरमपुद्गलपरावर्त एव मार्गानुसारिभाबो भवति । अपुनर्यन्धकाढ़ेर्मार्गानुसारिप्रौढप्रज्ञानुगतत्ववचनात् तस्य चैतावत्कालमानत्वात् । अत एव च नौषधप्रयोगकालश्चरमपुद्गलपरावर्त एवोक्तो व्यवहारतः , निश्चयतस्तु ग्रन्थिभेदकालस्तत्रापि ग्रन्थिभेदकाल एव न्यूनत्वेन पुरस्कृतः । तथा चोपदेशपदसूत्र
वृती
" घंणमिच्छत्तो कालो एत्थ अकालो उ होइ णायव्यो । कालो अ अपुणबंधगपभिई धीरेहि णिद्दिट्टो ॥ मार्गानुसारिभावों जायतें चरम एव परिवर्ते । गुणवृद्धया विगमे भवाभिनन्दिदोषाणाम् ॥ १७ ॥
घनमिथ्यात्वः कालोऽत्राकालस्तु भवति ज्ञातव्यः । कालश्चापुनर्बन्धकप्रभृति(रैर्निर्दिष्टः ।