________________
५८
मग्गाणुसारिभावोति । मार्गानुसारिभावो निसर्गतस्तस्वानुकूलप्रवृत्तिहेतुः परिणाम आज्ञाया लक्षणं 'मुणेपव्वंति ज्ञातव्यम् । क्रिया स्वसमयपरसमयोदिताचाररूपा, तस्य मार्गानुसारिभावस्योपकारे प्रति बन्धे वा न नियता, स्वसमयोदित क्रियाकृतमुपकारं विनाऽपि मेघकुमारजीव हस्त्यादीनां तथाभव्यत्वपरिपा काहिताऽनुकम्पादिमहिम्ना मार्गानुसारित्वसिद्धेः, परसमयक्रियायां च सत्यामपि समुल्लसितयोगदृष्टिमहिम्नां पतञ्जल्यादीनां मार्गानुसारित्वाप्रतिघातात् ।
अत्र कश्चिदाह - ननु पतञ्जल्यादीनां मार्गानुसारित्वमशास्त्रसिद्धम्, उच्यते- नैतदेवम्, योगदृष्टिसमुच्चयग्रन्थ एवं योगदृष्ट्यभिधानात् तेषां मार्गानुसारित्वसिद्धेः । उक्तं च - " निरूपितं पुनर्योगमार्गज्ञैरध्यात्मविद्भिः पतञ्जलिप्रभृतिभिस्तपोनिन्तकल्मषैः प्रशमप्रधानेन तपसा क्षीणप्राय मार्गानुसारिबोधबाधकमोह मलैरिति " । उक्तं च – “योगमार्गज्ञेस्तपोनिर्युतकल्मषैः " — इति प्रतीकं विवृण्वता योगविन्दुवृत्तिकृताऽपि तेषां तदभिधानाच्चेति । अयमिह परमार्थः - अव्युत्पन्नानां विपरीतव्युत्पन्नानां वा परसमयस्थानां जैनाभिमतक्रिया यथाऽसग्रहपरित्याजनद्वारा द्रव्यसम्यक्त्वाद्यध्यारोपणेन मार्गानुसारिताहेतुः, तथा सद्ग्रहप्रवृत्तानां तेषामुभयाभिमतयमनियमादिस्वरूप शुद्धश्रियाऽपि पारमार्थिक वस्तुविषयपक्षपाताधानद्वारा । तथाहि - योपादेय विषयमात्रपरीक्षाप्रवणत्वादध्यात्मविदां तथा च नियतक्रियाया मार्गानुसारिभावजननेनैकान्तिकत्वमात्यन्तिकत्वं वा, तथा च जैनक्रियां विनाऽपि भावजैनानां परेषां मार्गानुसारित्वादाज्ञासंभवोऽविरुद्ध इति । युक्तं चैतद्, न चेदेवं तदा जैनक्रियां विना भावलिङ्गबीजाभावाद् भावलिङ्गस्यापि परेषामनुपपत्तावन्यलिङ्गसिद्धादि भेदानुपपत्तेः ।
यः पुनराह – परसमयानभिमतस्वसमयाभिमतक्रियैव असद्ग्रहविनाशद्वारा मार्गानुसारिताहेतुरिति, तदसत्, उभयाभिमताकरणनियमादिनैव पतञ्जल्यादीनां मार्गानुसारिताऽभिधानात्, व्युत्पन्नस्य मार्गानुसारितायां तत्त्वजिज्ञासामूलविचारस्यैव हेतुत्वात्, अव्युत्पन्नस्य तस्यां गुरुपारतन्त्र्याधानद्वारा स्वसमया क्रियाहेतुत्वे परसमयानभिमतत्वप्रवेशे प्रमाणाभावाच्च । भवाभिनन्दिदोषप्रतिपक्षा गुणा एव हि