________________
इदमत्र हृदयम्--नत्यादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुयते, किन्तु क्वचित्कश्चिदेवेति । भिन्नाचारस्थितानामप्यन्त शुद्धिमतामपुनर्बन्धकत्वमविरुद्वम्, अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्ततन्त्रोक्ताऽपि मोक्षार्थी क्रिया घटते, सम्यग्दृष्टेश्व स्वतन्त्रक्रियेवेति व्यवस्थितत्वात् । तदुक्तं योगबिन्दुसत्रवृत्त्यो:
अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ॥
अपुनर्वन्धकस्योक्तरूपस्यैवमुक्तरूपेण सम्यग्नीत्या शुद्धयुक्तिरूपया उपपद्यते -घटते । किम् ? इत्याह - ' तत्तत्तन्त्रोक्तं कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजन योग्यमनुष्ठानमखिलं समस्तम् कुतः ? इत्याह- अवस्थाभेदसंश्रयात् - अपुनर्वन्धकस्यानेकस्वरूपाङ्गीकरणत्वात्, अनेकस्वरूपाभ्युपगमे हि अपुनर्बन्ध - कस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरतीति । अथापुनर्बन्धकानन्तरं यद्भवति तद्दर्शयति
स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युचैः प्रशमादिगुणान्वितः ॥
८
66
'स्वतन्त्रनीतितस्त्वेव जैनशाखनीतेरेव, न पुनस्तन्त्रान्तराभिप्रायेणापि, गन्थिभेदे ' रागद्वेषमोहपरिणामस्यातीवदृढस्य विदारणे, ' तथा ' यथाप्रवृत्या - दिकरणप्रकारेण 'सति ' विद्यमाने, किम् ? इत्याह-' सम्यग्दृष्टि: ' शुद्धसम्यक्रो' भवति ' संपद्यते । कीदृश: ? इत्याह- उच्चैः ' अत्यर्थं प्रागवस्थातः सकाशात् ' प्रशमादिगुणान्वितः ' उपशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तियुक्त इति ।
• एवं परेषामपि माध्यस्थ्ये द्रव्याज्ञासद्द्भावः सिद्धः ।। १५ ।। ननु द्रव्याज्ञाऽपि सिद्धान्तोदित क्रियाकरणं बिना कथं परेषां स्यात् ? इत्यत आह
5
मग्गाणुसारिभावो आणाए लक्खणं मुणेयव्वं । किरिया तस्स णणियया पडिबंधे वावि उपगारे ॥ १६ ॥
मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् ।
क्रिया तस्य न नियता प्रतिबन्धे वाऽप्युपकारे ।। १६ ।।