________________
गायों किदृण्वसा धर्मवीजानि चैवं शास्त्रान्तरे परिपठितानि रश्यन्ते
जिनषु कुशल चित्तं तबमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ उपादेयधियाऽत्यन्त संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्यं च विधिवच्छुद्धाशयविशेषतः ॥ भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिवद् लेखनानि च ।......... लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः। .. प्रकाशनाऽथ स्वाध्यायचिन्तना भावनेति च ॥.... दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । ..................
औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ इति । लालेतविस्तरायामप्युक्तम्-" एतत्सिद्धयर्थ तु यतिखव्यमादिकर्मणि, परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणनित्राणि, न लडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसन्ततिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवताम् , निरूपणीयः साधुविशेष', श्रोतव्यं विधिना धर्मशास्त्रम् , भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतोऽवलम्बनीयम् , पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, परिहर्तव्यो विक्षेपमार्गः, पतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनियं भुवनेश्वरवचनम् , कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम् , गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम् , पूजनीया मन्त्रदेवता, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यम् , चर्तितव्यमुत्तमज्ञानेन" एवंभूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी मार्गानुसारीत्ययं नियमादपुनर्वन्धकादिस्तदन्यस्यैवंभूतगुणसंपक्षेऽभावादित्यत आह-यद् यस्माद् अपुनर्बन्धकानां चित्रमनेकविधमनुष्ठानमुपदिष्टम् , अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया नानुपपत्तिरिति ।