________________
एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् ।। यतो विशिष्टकर्ता यां तदन्येभ्यो नियोगतः ।
तद्योगयोग्यतो भेदादिति सम्यग् विचिन्त्यताम् ।। अत्र पूर्व ह्येकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत् , चरमाचते तु समुल्लसितयोगायोग्यभावस्यति । चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजमादन्यादृशत्वमिति वृत्तिकद विवृतवानेतेन । यत्त्वन्यतीर्थिकाभिमताकरणनियमादेः सुन्दरत्वेन भणनं तद् हिंसाद्यासक्तजनस्य मनुष्यत्वस्येव स्वरूपयोग्यतया व्यवहारतो मन्तव्यम् । निश्चयतस्तु मिथ्यागकरणनियमो हिंसाद्यासक्तजनमनुष्यत्वं वेत्युभयमपि संसारकारणत्वेनानर्थहेतुत्वादसुन्दरमेवेति यत्केनचिदुक्तम् , तदपास्तम् । न तादृशं वचनमभिनिवेशं विना संभवति, यतः पूर्वसेवाऽपि मुक्त्यद्वेषादिसंगता चरमावर्तभाविनी, निश्चयतःप्राच्यावर्तभावितद्विलक्षणा योगयोग्यतयाऽऽचार्यैरतिशयितोक्ता, किं पुनरकरणनियमस्य साक्षाद् योगाङ्गस्य वक्तव्यमिति । नहि मनुष्यत्वसदृशम करणनियमादिकम् , अन्येषामपि सदाचाररूपस्य तस्य सामान्यधर्मप्रविष्टत्वात् , सामान्यधर्मस्य च भावलेशसंगतस्य विशेषधर्मप्रकृतिस्वात् , मनुष्यत्वं चानीदृशम् । किं च-हिंसाद्यासक्तमनुष्यत्वस्थानीयं यदि मिथ्यात्वविशिष्टमकरणनियमादिकं तदा मेघकुमारजीवहस्त्यादिदयाऽपि तादृशी स्याद् , उत्कटमिथ्यात्वविशिष्टस्य तस्य तथात्वे चेष्टापत्तिः, अपुनर्बन्धकादीनामुत्कटमिथ्यात्वाभावात्पूर्षसेवायामपि च तेषामेवाधिकृतत्वात् । तदुक्तम्. "अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता।
कल्याणाशययोगेन शेषस्याप्युपचारतः ॥” इति । न चापुनर्बन्धकादेरपि न सम्यगनुष्ठानमिति शङ्कनीयम् ,
" सम्माणुठाणं चिय ता सव्वमिणंति तत्तओ णेयं । ण य अपुणबंधगाई मुत्तुं एयं इहं होइ ॥"
सम्यगनुष्ठानमेव तस्मात्सर्वमिदं तत्त्वत्तो शेयम् । न चापुनर्बन्धकादि मुक्त्वा एतदिह भवति ॥