________________
सन्यगनुष्ठानमेवातानुकूलाचरणमेव, तत्-तस्मात्सर्व त्रिप्रकारमपि इदमगुष्ठानं तत्वतः-पारमार्थिकव्यवहारनयदृष्ट्या शेयम् । अत्र हेतुमाह-'न' नैव, यतोऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतितान् मुक्त्वा एतदनुष्ठानमिहैतेषु जीवेषु भवति ' अपुनर्बन्धकादयश्च सम्यगनुष्ठानवन्त एव'-इति उपदेशपदसूत्रवृत्तिवचनाद् अपुनर्बन्धकादेः सम्यगनुष्ठाननियनप्रतिपादनात् त्रिप्रकारं अनुष्ठान सतताभ्यास-विषयाभ्यास-भावाभ्यासभेदात् । तत्र नित्यमेवोपादेयतया लोकोसरगुणावाप्तियोग्यतापादकमातापितृविनयादिश्रुत्तिः सतताभ्यासः। विषयेऽईलक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः स विषयाभ्यासः। दूरं भवादुद्विग्नस्य सन्यग्दर्शनादीनां भावानामभ्यासश्च भावस्याभ्यास इति । तच्च निश्चयतो मोक्षानुकूलभावप्रतिबद्धत्वाद् विषयगतमेवेत्यपुनर्वन्धकादिः सम्यगनुष्ठानवानेवेति योगमार्गोपनिषद्विद', येन चात्यन्तं सम्यक्त्वाभिमुख एव मिथ्यादृष्टिार्गानुसारी गृह्यते, तेनादिधार्मिकप्रतिक्षेपाद् अपुनर्बन्धकादयस्त्रयो धर्माधिकारिण इति मूलप्रबन्ध एव न ज्ञात्तः, सम्यक्त्वाभिमुखस्यैवापुनर्बन्धकस्य पृथग्गणने चारित्राभिमुखादीनामपि पृथग्गणनापत्त्या विभागन्याघातात् । तस्माद् यथा चारित्राद्वयवहि तस्थापि सम्यग्दृशः शमसंवेगादिना सम्यग्दृष्टित्वं निश्चीयते, तथा सम्यक्त्वाद् व्यवहितस्यापुनर्बन्धकादेरपि तल्लक्षैस्तद्भावो निधेयः। तल्लक्षणप्रतिपादिका धेयं पश्चाशगाथा
" पावं ण निव्वभावा कुणइ ण बहु मराइ भवं घोरं ।
उचियष्ठिइं च सेवइ सव्वत्थवि अपुणवंधो ॥" ति । एतवृत्तिर्यथा-पापमशुद्धं कर्म, तत्कारणत्वाद् हिंसाद्यपि पापं तद् 'न' नैव तीवभावाद् गाढं संक्लिष्टपरिणामात्करोति विधत्ते, अत्यन्तोत्कटमिथ्यात्वादिथयोपशमेन लब्धात्मनैमल्यविशेषत्वाद् । तीब्रेति विशेषणादापनमतीवभावात्करोत्यपि, तथाविधकर्मदोषात् । तथा 'न बहु मन्यते' न बहु मानविषयी करोति 'भवं' संसारं 'घोरं ' रौद्रम् , तस्य घोरत्वावगमात् । तथा उचितस्थितिम्अनुरूपप्रतिपत्तिम् , चशम्दः समुच्चये, सेवते-भजते, कर्मलाघवात् सर्वत्रापि, आस्तामेकत्र, देशकालावस्थापेक्षया समस्तेष्वपि देवातिथि-माता-पितृप्रभृतिषु,
पापं न तीनभायातकरोति, न बहु मन्यते भवं घोरम् । रविसस्थिति म षते मर्यापि अपुनर्षन्धः ॥