________________
जीवघातजन्या, किन्तु प्रमत्तयोगजन्या; “ 'सही पमत्तजोगो आरंभोति वचनात्; अन्यथाऽऽरम्भिकी क्रिया कस्यचित्पमत्तस्य कादाचित्क्येव स्यात्, तत्कारणस्य जोपघातस्य (कस्य )चित्कादाचित्कखात, अस्ति चारम्भिकी क्रिया प्रमत्तगुणस्थानं यावदनवरतमेव । किश्च-यदि जीवघातेनारम्भिकी क्रिया भवेत् । वदाऽपरोऽप्रमतो दरे, उपशान्तवीतरागस्याप्यारम्भिकी क्रिया वक्तव्या स्याद: अस्ति च तस्य सत्यपि जोवधाते ईपिथिक्येव क्रियेति न जीवघातात्संयवस्यारम्भिको क्रिया, किन्तु प्रमत्तयोगादिति स्थितम् । स च प्रमत्तो योगः प्रमादैभवति । ते च प्रमादा अष्टधा शास्त्रे प्रोक्ताः-१ अज्ञान-२ संशय-३ विपर्यय-४ राग५ देष-६ मतिभ्रंश-७ योगदुष्पणिधान-८ धर्मानादरभेदात् । ते चाज्ञानवर्जिताः सम्यग्दृष्टेरपि सम्भवन्तोऽतः प्रमत्तसंयतपर्यन्तानामेव भवन्ति न पुनरममत्तानामपि, प्रमादाप्रमादयोः सहानवस्थानात् । तेनेहाष्टासु प्रमादेषु यौ रागद्वेषौ प्रमादत्वेनो. यात्तौ (तो) योगानां दुष्पणिधानजननद्वाराऽऽरम्भिकीक्रियाहेतू ग्राह्यौ: तयोश्च तथाभूतयोः फलोपहितयोग्यतया जीवघातं प्रति कारणवस्य कादाचित्कत्वेऽपि स्वरूपयोग्यतया तथात्वं सार्वदिकमेव । यद्यपि सामान्यतो रागद्वेषावप्रमत्तसंयतानामपि कदाचित्फलोपहितयोग्यतयापि जीवघातहेतू भवतस्तथापि तेषां तौ न प्रमादौ; यतनाविशिष्टया प्रवृत्त्या सहकृतयोस्तयोरारम्भिकीक्रियाया अहेतुखाव: तदप्यनाभोगसहकृतयतनाविशिष्टयो रागद्वेषयोर्योगानां दुष्पणिधानजनने साम
•भावात् , सम्यगोर्यया प्रवृत्या तयोस्तथाभूतसामर्थ्यस्यापहरणात् , । न चैवं प्रमत्तानां सम्भवति, तेषामयतनया विशिष्टयोस्तयोर्योंगानामशुभताजनकत्वेनारम्भिकीक्रियाहेतुखाद्, अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहकृतानाभोगजन्यम् । तदुक्तं दशवैकालिकवृत्तौ-"अयतनया चरन् प्रमादानाभोगाभ्यां प्राणिभूतानि हिनस्तीति " । ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति । तत्र प्रमत्तसंयतानामपवादपदप्रतिषेवणावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिप्रायेण संयमपरिणामानपायाद्रव्यखम्, अन्यावस्थायां खनाभोगाद् । अप्रमत्तसंयतानां खपवादानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यदिनाभोगसहकृतमविशेषितं मोहनीयं कर्मैव जीवघातादिकारणं सम्पन्नम्, तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानांतु मोहनीयानाभोगाभ्यां द्रव्याश्रवपरिणतिरिति सिद्धमिति ॥
१ सर्वः प्रमत्तयोग आरम्भ इति. .