________________
'दवासवस्स'त्ति । गाविषयस्य द्रव्याश्रवस्य विगमो यदि तहिति तत्र क्षीणमोहे इष्टोऽभिमतो भवतस्तर्हि अर्थतोऽर्थापत्या भावगतं पापं तत्र प्रतिपन्नं भवति, गर्हणीयपापत्वावच्छिन्नं प्रति वन्मते मोहनीयकर्मणो हेतुत्वात् , तन्निवृत्तौ गर्हणीयपापनिवृत्तावप्यगर्हणीयभावरूपपापानिवृत्तेः, अगर्हणीयपापेऽप्यनाभोगस्य हेतुत्वात् तनिवृत्तौ केवलिनस्तनिवृत्तिः । क्षीणमोहस्य त्वाश्रवच्छायारूपम गर्हणीयपापमभ्युपगम्यत एवेति न दोष इति चेत्, न । अभ्यन्तरपापमात्रस्य गर्हापरायणजनाप्रत्यक्षत्वेन त्वन्मतेऽगर्हणीयत्वात् तत्सामान्येनाभोगस्य हेतुत्वात् । मोहाजन्यागर्हणीयपापेऽनाभोगस्यान्यत्र च तत्र मोहस्य हेतुत्वान्न दोष इति चेत्,न । गर्हणीयपापहेतोर्मोहस्यागर्हणीयपापहेतुत्वाभावाद्, अन्यथा तजन्यगईणीयागर्हणीयोभयस्वभावैकपापप्रसङ्गादिति न किश्चिदेतत् ॥ ५२ ॥
द्रव्याश्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकुर्वनाह'णियणियकारणपजवा दवासवपरिणई ण मोहाओ। शहरा दवपरिग्गहजुओ जिणो मोहवं हुज्जा॥५३॥
व्याख्या-द्रव्याश्रवाणांमाणातिपात-मृषावादादीनां परिणतिर्निनिजकारणानि यानि नोदनाभिवातादियोगव्यापारमृषाभाषावर्गणाप्रयोगादीनि तत्पभवा सती न मोहान्मोहनोयकर्मणो भवति-मोहजन्या नेत्यर्थः । क्वचित्प्रवृत्यर्थं मोहोदयापेक्षायामपि द्रव्याश्रवखावच्छिन्ने मोहनीयस्याहेतुत्वाद्, अन्यथाऽऽहारसंज्ञावतां केवलाहारप्रवृत्तौ बुभुक्षारूपमोहोदयापेक्षणात्कवलाहारखावच्छिन्नेऽपि मोहस्य हेतुखात् केवली कवलभोज्यपि न स्यादिति दिगम्बरसगोत्रखापत्तिरायुष्मतः।। ____ अथ कवलाहारस्य वेदनीयकर्मप्रभवसान तत्र मोहनीयस्य हेतुत्वम्, आश्रवस्य तु मोहप्रभवलपसिद्धेर्द्रव्याश्रवपरिणतिरपि मोहजन्यैव, तत्रोदितं चारित्रमोहनीयं भावाश्रवहेतुरसंयतानां सम्पद्यते, संयतानां तु प्रमत्तानामपि सत्तावर्तिचारित्रमोहनोयं द्रव्याश्रवमेव सम्पादयति, सुमङ्गलसाधोरिवाऽऽभोगेनापि जायमानस्य तस्य ज्ञानाद्यर्थमत्यापवादिकत्वेन तजन्यकर्मबन्धाभावात्संयमपरिणामस्यानपायेनाविरतिपरिणामस्याभावात्तदुपपत्तेः । या तु तेषामारम्भिकी क्रिया सा न १ निजनिजकारणप्रभवा द्रव्यानवपरिणतिर्न मोहात् ।
इतरथा द्रव्यपारिग्रहयुतो जिनो मोहवान् भवेत् ॥ ५ ॥