________________
स्वात् , औधिकयोगदृष्ट्या तत्प्रणीतवाक्येषु सुन्दरार्थमुपलभ्ये त्यस्याप्यादिधार्मिकत्वोपपत्तेश्चेत्यध्यात्मदृष्ट्या विचारणीयम् , तां विना वादप्रतिवादादिव्यापारात् तत्त्वाप्रतिपत्तेः । तदुक्तं योगबिन्दौ
९ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीडकवद् गतौ ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः।
गतो सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥” इति । नत्वेतदयुक्तम्-मिथ्यादृशां प्राणातिपातादिविनिवृत्तेरप्यधर्मपक्षे निर्वशितत्वात् तया तेषां देशाराधकत्वाभावात् । तदुक्तं सूत्रकृताङ्गे"अंहावरे तच्चस्स टाणस्स मीसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरण्णिआ" इत्यादि यावत् xxx “असव्वदुक्खप्पहीण मग्गे एगंतमिच्छे असाहु"त्ति । एतवृत्त्येकदेशो यथा-" अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एव यैर्द्रष्टव्यः । एवदुक्तं भवतियद्यपि मिथ्यादृष्टयः कांचित्तथाप्रकारां प्राणातिषातादिविनिवृत्तिं विदधति, तथाप्याशयस्याशुद्धत्वादभिनवपित्तोदये सति शर्करामीश्रक्षीरपानवदूपरप्रदेशवृष्टिवद्विवक्षितार्थासाधकत्वानिरर्थकतामापद्यते, तथा मिथ्यात्वानुभावाद् मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्यः"। इत्यादीति चेत् । सत्यम्, नहि वयमपि सन्मार्गगह दिहेतुप्रबलमिथ्यात्वविशिष्टया प्राणातिपातादिविनिवृत्तिक्रियया देशाराधकत्वं ब्रूमः, किन्तु रागद्वेषासद्ग्रहादिमान्छेन मार्गानुसारिण्यैव तया । सा च सामान्यधर्मपर्यवसन्नाऽपि धर्मपक्षे न समवतरति, तत्र भावविरतेरेव परिगणनात्, तदभावे बालत्वात् , तदुक्तम-"अविरई पडुच्च बाले आहिजइ” त्ति । एतवृत्तिर्यथा-"येयमविरतिरसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टे व्यतो विरतिरप्यविरतिरेव, तां प्रतीत्य-आश्रित्य बालवद् बालोऽज्ञः, सदसद्विवेकविकलत्वाद् इत्येवसाधीयते व्यवस्थाप्यते वेति"। द्रव्यविरतिश्च मिथ्यात्वप्राबल्येऽप्राधान्येन, तन्मान्ये च मार्गानुसारित्वरूपप्राधान्येतापि संभवतीत्येवं विषयविभागप
१ अथापरस्तृतीयस्य स्थानस्य मिश्रकस्य विभने एवमाख्यायते-य इमे भवन्ति आरपियकाः। असर्वदुःखप्रक्षीणमार्गमेकान्तमिथ्याऽसाध्विति ॥
२ अविरतिं प्रतीत्य बाल आधीयते ।