________________
यालोचनायां न कोऽपि दोष इति । अवश्यं चैतदङ्गीकर्तव्यम् , अन्यथा परस्य मार्गानुसारिणो मिथ्यादृष्टेविलोपापत्तिः, मिथ्यात्वसहिताया अनुकम्पादिक्रियाया अप्यकिंचित्करत्वाद् , 'यदीयानन्तानुबन्धिनां जीर्णत्वेन सम्यक्त्वप्राप्तिपतिबन्धकत्वं तेषां मार्गानुसारित्वम् , ते च सम्यक्त्वाभिमुखत्वेन सम्यवष्टिवदेवावसातव्याः' इति त्वावयोः सभानमिति । न चेदवं तदादिधार्मिकविधिः सर्वोऽप्युच्छिद्यतेति सर्वाभिनिविष्टचित्तानां मिथ्यादृशां दयादिकमदुष्टम् , अनभिनिविष्टानां तु मार्गानुसारितानिमित्तमिति ध्येयम् , सामान्यधर्मस्यापि सद्धर्मयोजप्ररोहत्वेनोक्तत्वात्। तदुक्तं धर्मविन्दौ
"प्रायः सद्धर्मबीजानि गृहिष्येवंविधेवलम् ।
रोहन्ति विधिनोप्तानि यथा वीजानि सरिक्षतौ ॥ इति । एतेन
'जे अबुद्धा महाभागा वीरा असम्मत्तदंसिणो।
असुद्धं तेर्सि परकंतं सफलं होइ सव्वसो ॥" इति सूत्रकृताऽष्टमाध्ययनगाथायां तेषां च बालानां यत्किमपि तपा-दानाध्ययन-नियमादिषु पराकान्तमुद्यमः कृतस्तदशुद्धम्-अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वाद् सनिदानत्वावनि, कुवैद्यचिकित्सावद् विपरीतानुबन्धित्वाचेति । सह फलेन कर्मबन्धेन वर्तते इति सफलं। सर्वश इति। सर्वा अपि क्रियास्तपोऽनुष्टानादिकाः, कर्मबन्धायैव इत्युत्तरार्द्धव्याख्यानात् ।' पण्डितानामपि त्यागादिभिलॊकपूज्यानामपि सुभटवादं वहतामपि सम्यक्त्वपरिज्ञानविकलानां सर्वक्रियावैफल्याद न मिथ्यादृशां केषामपि क्रियावसामपि लेशतोऽप्याराधकत्वम्' इत्यपास्तम् । एतेन भवाभिनन्दिनां मिथ्याहशां सर्वक्रियावैफल्यसिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात् । एतेन 'मिथ्यादृशां सर्व कृत्यं निरर्थकम्' इत्यादी
ये अबुद्धा महाभागा वीरा असम्यक्त्वदर्शिनः । अशुद्धं तेषां पराक्रान्तं सफलं भवति सर्वशः ॥