________________
न्यपि वचनानि व्याख्यातानि विशिष्टफलाभावापेक्षयाऽपि निरर्थकत्व
वचनदर्शनात् ।
पव्यते -
०४
3.
" नाणं चरितहीणं लिंगरगहणं च दंसणविहू । संजमहीणं च वर्ष जो चरइ पिरत्थयं तस्स || " इत्यादि ।
अथ पोषमासे वटवृक्षात्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यया स्वरूपयोग्यता-सहकारियोग्यताऽभावेन विशेषस्तवा मिथ्यादृक्कृत्यचारित्रहीनज्ञानादिनिरर्थकतावचनयोरपि स्फुट एव विशेष इतिचेत्, तर्हि अयमपरोऽपि विशेषः परिभाव्यताम् । सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दिमिध्यादृत्यं क्षवदयोग्यम्, अपुनर्षन्धकादिकृत्यं तु सहकाराहुरवत्पारम्पर्येण योग्यमिति सर्वमिदं निपुणं निभालनीयमम् ||२४||
C
तदेवं श्रुतवांश्च बालतपस्वी देशाराधकः' इति वृत्तिगतः प्रथसपक्षः समर्थितः, अथ तद्वतं द्वितीयं पक्षं समर्थयति
१
पक्खंतरम्मि भणिओ गीयत्थाणिस्सिओ अगीओ सो ॥ जो णभिणिविट्टचित्तो भीरू एतत्तई ॥ २५॥
पक्वंतरम्मित्ति | पक्षान्तरे-अन्येषामाचार्याणां व्याख्याने गीतानिश्रितोऽगीतार्थः स देशाराधको भणितः, योऽनभिनिविष्टचित्तःआत्मोत्कर्ष - परद्रोह - गुरु- गच्छादिप्रद्वेषमूलासग्रहाकलङ्कितचित्तः, भीरुः- कुतोऽपि हेतोरेका कि भावमाथ्र्यवपि स्वेच्छानुसारेण प्रवर्तमानोsपि खारसिक जिनाज्ञाभयः, एकान्तसूत्ररुचिः - अव्याकृत सूत्रमात्रानुसारी ।
पक्षान्तरे भणितो गीतार्थानिश्रितोऽगीतः सः । योऽनभिनिविष्टचित्तो भीरुरेकान्तसूत्ररुचिः ।। २५ ।।
. ज्ञानं चारित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम् । . संयमहीनं च तपो यश्चरति निरर्थकं तस्य ॥