________________
पहीलार्थजालादाशिकक्षयोपशममेघालावृद्धिसंभवात्। एवं नदीतुल्यानां परप्रयादानां जैनागमसमुद्रमूलत्वे लोकनील्यापि बाधकाभावात् । अत एवन समुद्रप नदीपितृत्वापत्तिदोषोऽपि, लोकजील्याऽपि तदनपपतेः । यदि चोपमानबललभ्यधर्नेग तत्सहचरितानभितधर्मापत्तिः स्यात् , नह। चन्द्रोपमया जुवादी कलङ्कितत्वाद्यापत्तिरपि स्वादिति ।। न चैवं मेवात्माग्नदीनामिव जैनागमानुसारिक्षयोपशमात्याक् परवादानामनुपचितावस्थत्वा सङ्गः, इष्टत्यात् , जैनागमानुसारिनयपरिज्ञान धिनाज्नुपनिबद्धमिथ्यात्वरूपतयैव तेषां स्थितत्वात् । न चैवं जिनदेशनाया उपचितमिथ्यात्वमूलत्वेनानर्थमूलत्वापत्तिः, विश्वहितार्थिप्रत्रतावनुषङ्गतस्तदुपस्थितावपि दोषाभावाद् भावस्यैव प्राधान्यात् ।। तदुक्तमष्टके
" इत्थं चैतदिहेप्टव्यमन्यथा देशनाऽप्यलम् ।'
कुधर्मादिनिमित्तत्वाद्दोपायेव प्रसज्यते ॥” इति पराभिप्रायेण प्रकृतस्तुतिवृत्तव्याख्याने च त्वत्तः समुदी:इति वाच्ये ' त्वयि समुदीर्णाः' इति पाठस्य लिष्टत्वापत्तिः। किं च'एवं परेषां भगवदभिहितार्थ श्रद्धानं भगवतश्च तल्लेशस्याप्यश्रद्धानम्.' एतावता भगवत्यतिशयालाभः। सांप्रदायिके त्वर्थे 'भगवत्यन्यदृष्टयः समयतरन्ति, भवांश्च न तासु" इत्येवं स्खेतरसकलदर्शनार्थव्याप्यार्थप्रवचनव तृत्वरूपातिशयालाभ इत्युपमया व्यतिरेकालंकाराक्षेपात् दुष्टार्थकत्वं काव्यस्य स्यात् । किं च-एवमपि परेषां जिनाभिहितार्थश्रद्धानाभ्युपगमे सत्पशंसारूपरीजलाभाभ्युपगमप्रसङ्गः । न च तेषां क्वचिद् यथार्थजिनोक्तश्रद्धानेऽपि तत्प्रणेतहति देवत्वेन भावाभाबाद । देवो रागद्वेषरहितः सर्वज्ञ एव भवति नापरः, स चास्मदभिमतः सुगतादिरेवेति शाक्यादीनाम् , देवोहन्नेव, परमस्मन्मार्गप्रणेतेत्यादि च मिथ्यात्वबीजं दिगम्बरादीनामस्त्येवेति न तेषु धर्मसंभव इति वाच्यम् । तथापि तादृशपक्षपातरहितानां ' यः कश्चिद् रागादिरहितो विशिष्टपुरुषः स देवः' इत्यादिसंमुग्धश्रद्धानवतां भगवदभिहितकतिपयसुन्दरार्थग्राहिणां धर्मबीजसद्भावस्य प्रतिहन्तुमशक्य