________________
पितृत्वापत्या नदीपतिः समुद्रः' इति कधिसमयव्याह तिप्रसस्तेः, समुद्रस्य गाम्भीर्यहानिप्रसक्तेश्च । तस्मात्स्तुतिकर्तुरभिप्रायोऽयम्हे नाथ ! ' त्वयि' सर्वज्ञे दृष्टयोऽन्यतीथिकानां निजनिजमार्गश्रद्धानलक्षणाः 'समुदीर्णाः' सम्यगुदयं प्राप्ताः तद्विषयो भगवान् जात "इत्यर्थः । अयं भावः-यत्किचिदकरणनियमादिकं जिनेन सुन्दरतया भपितम् , तदन्यतीर्थिकैरपि तथैव प्रतिपन्नम् । एतच्च साम्प्रतं नालिकेरादिफलाहारेणैकादशीपर्वोपवासं कुर्वाणा जैनाभिमतोपवासं सम्यक्तया मन्यन्ते, जैनाश्च तदुपवासं लेशतोऽपि न मन्यन्ते । अत एवं च 'न च तासु भवान् प्रदृश्यते' इति । तासु-अन्यतीर्थिकदृष्टिषु " भवान् न प्रश्यते' अन्यतीर्थिकश्रद्धानविषयीभूतं धार्मिकानुष्ठान गङ्गास्नानादिकं भवान् लेशतोऽपि न मन्यते इत्यर्थः । अन्यतीथिकानां दृष्टयो भगवति वर्तन्ते । तत्र दृष्टान्तमाह-यथोदधौ सर्वाः सिन्धयः समुदीर्णा भवन्ति-सम्यगुदयं प्राप्ताः स्युः, लोकेपि भर्तृसंबन्धेन स्त्रिय उदिता भवन्तीति प्रसिद्धेः। 'तासु भवान्नास्ति' इत्यत्र दृष्टान्तमाह-यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो नास्ति । तासु च समुद्रो नावतरतीत्यर्थः । अनेनाभिप्रायेण स्तुतिः, न पुनरहदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशाद्न्यतीर्थिकदृष्टयः समुत्पन्ना इत्यभिप्रायेणेति ॥
तदसत्, प्राचीनाचार्यव्याख्यामुल्लध्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात् । तदाहुः श्रीहेमचन्द्रसूरयः
" यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारिशिष्यैः ।
न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥” इति । न चेदमुपदेशपदवृत्तिकृत एव दृषणदानम् , किन्तु " एक एव "मार्गाऽपि तेषां शमपरायणः।” इत्यादिवदतां श्रीहरिभद्रसूरीणां 'समाख्यातम्' इति पदसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां चेत्यतिदुरन्तोऽयं कोऽपि मोहमहिमा । यावानुपपत्तिद्भाविता 'यदि द्वादशाङ्गं रत्नाकरतुल्यम्' इत्यादिना साऽनुपपन्ना, समुद्राजलं गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा सवनीति प्रतिद्धेः, परप्रवादानामपि नदीतुल्यानां जैनागमस्य समुद्र