SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८९ तित्ययरवयण संगहविसेसपत्थारमूलवागरणी । व्यओि अ पंज्जवणओ अ सेसा विअप्पासि ॥ " इति । " ( संमति नयकाण्ड. गा. ३) योक्तम् ' विन्दुभावं भजन्ते ' इति प्रयोगानुपपतिः, अवयघावयविनोरुपमानोपमेयभावे गौरवाभावादिति । तदसत्, नह्यत्र हस्ता द्यवयवसाधारणमवयवत्वम्, किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाप्रतिघातात् । चोक्तम् —' समुद्रस्य बिन्दव इति भणनमप्यसंगतम् ' इत्यादि, तदपि असत्, समुद्रस्थानीयजैनमहाशास्त्रप्रभवकल्लोलस्थानीयाबान्तरशास्त्रेभ्यः सामान्यदृष्टिपवन प्रेरितपरसमयबिन्दृद्गमस्याविरोधात्, 'समुद्रान्निर्गतविन्दुभिः समुद्रस्य गाम्भीर्यहानि:' इति तु न पामरस्यापि संमतमिति यत्किचिदेतत् । एवकाराद्यध्याहारेण वृत्तिसंघटना तु वृत्तिदभिप्रायेणैव बिरुद्धा, 'अन्यत्र न सुन्दरम्' इत्यस्यार्थस्य वृत्तिकृदनभिप्रेतत्वात्, उदितानुदितयोः करणनियमयोरभेदेन भणनं यद्युदितस्याकरणनियमस्यावज्ञा तद्भेदवादिभगवदवज्ञापर्यंवसायिनी स्यात्, तदा तद्भेदवर्णनमपि सामान्याकरण नियमावज्ञा तद्भेदवादिभगवदवज्ञापर्यवसायिनी स्यात्, न हि तद्भेदमेव भगवान् वदति नाभेदमित्येकान्तोऽस्ति, भेदाभेदवादित्वात्तस्येति वक्रतां परित्यज्य विचारणीयम्; परगुणद्वेष एव भगवनामवज्ञेति । एतदर्थसमर्थनायैव हि 'सर्वप्रवादमूलं द्वादशाङ्गं रत्नाकर तुल्यम्' इत्यत्र " उद्घाविव इत्यादिसंमतितयोद्भावितं वृत्तिकृता । " अत्र पर: प्राह-यत्तु 'सर्वप्रवादानां द्वादशाङ्गं रत्नाकरतुल्यम्' इति समर्थनाय टीकाकारेण “ उद्घाविव सर्वसिन्धवः०" इत्यादिरूपं श्रीसिद्ध-: सेनदिवाकरवचनं संमतितयोद्भावितं तच्च विचार्यमाणमसंगतमिवाभाति । तथाहि यदि द्वादशाङ्गं रत्नाकरतुल्यम्, तर्हि नदीतुल्याः प्रवादा न भवेयुः, समुद्रान्नदीनामुत्पत्तेरभावात्, समुद्रस्य च नदीतीर्थकरवचन संग्रह विशेष प्रस्तारमूलव्याकरणी । द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy