________________
खेतं गओ अडवि इको संचिठए तहिं चेव ।
तित्थयरो पुण पियरो खेतं पुण भावओ सिद्धिति ॥ एतासां गाथानामयं संक्षेपार्थः-अह छंदस्सत्ति । यथाछन्दस्य प्ररूपणा उत्सूत्रा-सूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या । तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया ॥१॥ .
तत्र या चरणे चरगविषया सा इयं वक्ष्यमाणा भवति, तामेवाह-पडिलेहणित्ति । मुखपोतिका मुखवत्रिका सैव प्रतिलेखिनी पात्रप्रत्युपेक्षिका पात्रके सरिका, कि द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभय प्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा रयहरणणिसिज्जत्ति। किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् ? एकैव निषद्याऽस्तु । पायमत्तएत्ति । यदेव पात्रं तदेव मात्रक क्रियताम् , मात्रकं वा पात्रं क्रियताम् , किं इयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः। भणितं च--" यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयाद्" इति । तथा पट्टएत्ति । य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियताम् , किं पृथगुत्तरपट्टग्रहेण ? । तथा पडलाई घोलत्ति । पटलानि किमिति पृथग ध्रियेते (यन्ते ?), चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् । उण्णादसि. यत्ति । रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम् , ता गर्णमयीभ्यो मुदुतरा भवन्ति । पडिलेहणापोत्तंति । प्रतिलेखनावेलायामकं पोतं प्रस्तार्य तस्योपरिसमस्त वस्त्रमत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयादहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति ॥२॥
दंतछिन्नमिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तै छेत्तव्याः न नखरदनेन । नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा अलित्तंति। पात्रमलिप्तं कर्तव्यम् , लेपे बहु दोषसंभवान्न पात्रं लेपनीयमिति भावः । हरियठियत्ति । हारेतप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । पमजणा यछन्नस्सत्ति । यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरमच्छन्ने क्रियताम् , दयापरि
क्षेत्रं गतोऽटवीमेकः सतिष्ठते तत्रैव। ... तीर्थकरः पुनः पिता क्षेत्र पुनः भावतः सिद्धिरिति ॥ .. ..