________________
णामाविशेषात् । ईदगी यथा छन्दस्य प्ररूपमा चरगेषु मतिषु चानुपातियनपातिनी च भवति ।
अनुपातिन्यननुपातिन्योः स्वरूपमाह--अगुवाइति । यद् भाषमाणः स यथा छन्दो ज्ञायते, यथा खु निश्चितं युक्तितितं युक्तिसंगतमय भाषते तदनुपातिप्ररूपणम् । यथा-यैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाग्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति । यथा चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकापतनसंभवेन सूत्रयुक्तिबाधात् । अथवा सर्वाण्येव पदान्यगीतार्थतिभासापेक्षयाऽनुपातीनि, मीतार्थवतिभासापेक्षया त्वननुपातीनीति ॥४॥
इदं चान्यरात्मरूपणम् -सागारियाइत्ति । सागरिकः शय्यातरस्तद्विषये ब्रूते-शय्यातरपिण्डग्रहणे नास्ति दोषः, प्रत्युत शय्यातरस्य महालाभ इति । आदिशदात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः, प्रत्युत भिक्षाशुद्धिरित्यादि ग्रामम् । पलिकत्ति । पर्यादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न को पि दोषः, मत्युत भूमावुपविशतो लाघवादयो दोषाः । निसेनासेवणत्ति । गृहिनिषद्यायां न दोषः, प्रत्युत धर्मश्रवणेन लाभ इति । गिहिपत्तेति । गृहिमात्रके भोजनं कस्मान क्रियते ? नात्र दोष, प्रत्युत सुदरपागोपभोगात्यवचनानुपघातलक्षणोऽन्यपागभारावहनलक्षणश्च गुण इति । निग्गंथिचे?णाइत्ति । निर्ग्रन्थीनामुपाश्रये च स्थानादौ को दोषः १ यत्र ता स्थितेन शुभं मनः प्रवर्तव्यम् , तच स्वायत्तमिति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते, तदा परत.ऽल का स्थेयमिति ॥५॥
चारेति । चारश्चरणं ममनमित्यर्थस्तद्विषये ब्रूते-वृष्टयभावे चतुर्मासकमध्येऽपि गच्छता को दोष इति । तथा वेरज्जे यत्ति । वैराज्येऽपि ब्रूते-साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरम् , सोढव्याः खलु साधुभिरुपसर्गा इति । पढमसमोसरणंति । प्रथमसमवसरणं वर्षाकालस्ता ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि हुद्गमादिदोषशुद्धमिति गृह्यते, 'तत्को विशेषः १ इति । तह णिइएसुत्ति । तथा नित्येषु नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रादिग्रहणलक्षणो गुण इति । तथा सुत्रत्ति । य गुपकरणं न केनापि ह्रियते ततः शून्यायां वसतौ को दोषः । अकप्पिये अत्ति । अकल्पिकोऽगीतार्थस्तद्विषये ब्रूते-अकल्पिकेनानीतमज्ञातोञ्छ किं न भुज्यते ?, तस्याज्ञातोच्छतया विशेषतो. परिभोगार्हस्वात् । संभोएत्ति ।