________________
न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात् ।
उच्यते - इह द्विविधा जीवाः - सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये निगोदावस्थात उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते से लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्यन्ते । ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथाऽपि ते सांव्यवहारिका एव, संव्यवहारपतितत्वात् । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतस्वादसांव्यवहारिकाः । कथमेतदवसीयते ? । द्विविधा जीवा : - सांव्यवहारिका असांव्यवहारिकाश्चेति उच्यते युक्तिवशात् । इह प्रत्युपन्नवनस्पतीनामपि निर्लेपनमागमे प्रतिषिद्धम्, किं पुनः सकलवनस्पतीनां तथाभव्यानामपि । तच्च यद्यसांव्यवहारिकराशिनिपतिता अत्यन्त - वनस्पतयो न स्युस्ततः कथमुपपद्येत । तस्मादवसीयते-अस्त्वसांव्यवहारिकराशिरिति, यद्गतानां वनस्पतीनामनादिता । किं च - इयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा
" अत्थि अनंता जीवा जेहिं ण पत्तो तसाइपरिणामो । व ताणता णिगोअवासं अणुहवंति ||
"
तत इतोऽप्यसांव्यवहारिकराशिसिद्धिः । उक्तं च
44
र्णय पच्चपन्नवणसईणं णिल्लेवणं न भव्वाणं । जुस होइ ण तं बइ अचंतवणस्सई नत्थि ।। एवं चाणाइवणस्सईणमत्थित्तमत्थओ सिद्धं । tors इमावि गाहा गुरूवएसागया समए ॥ " अस्थि अनंता जीवा' इत्यादि १८ पदे ॥
".
सन्त्यनन्ता जीवा यैर्न प्राप्तः त्रसादिपरिणामः । तेऽप्यनन्तानन्ता निगोंदवासमनुभवन्ति ॥
न च प्रत्युत्पन्नवनस्पतीनां निर्लेपनं न भव्यानाम् । युक्तं भवति तद् यदि अत्यन्तवनस्पतिर्नास्ति ॥ एवं चानादिवनस्पतीनामस्तित्वमर्थतः सिद्धम् । भण्यते इयमपि गाथा गुरूपदेशागता समये ॥