________________
ततोऽभव्या अव्यावहारिका एव, अन्यथाऽसंख्येयपुद्गलपरावर्तकालातिक्रमे तेषां सिद्धिगमनस्याव्यवहारित्वभवनस्य वा प्रसङ्गाद् । अत एव चादरनिगोदजीवा अप्यव्यावहारिकराशावभ्युपगन्तव्याः, अन्यथा बादरनिगोदजीयेभ्यः सिद्धानानन्तगुणत्वप्रसङ्गात् । यावन्तो हि सांव्यवहारिकाशितः सिध्यन्ति, तावन्त एव जीवा असांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति । यत उक्तम्
"सिझंति जत्तिया किर इह संववहारजीवरासीओ। - इंति अणाइवणस्सइमझाओ तत्तिया चेव ॥” इति । .. एवं च व्यवहारराशितः सिद्धा अनन्तगुणा एवोक्ताः । तत्र यदि षादरनिगोदजीवानां व्यावहारिकत्वं भवति, तर्हि बादरनिगोदजीवेभ्यः सिद्धा अनन्तगुणाः संपोरन् , सन्ति च सिद्धेभ्यो यादरनिगादजीवा अनन्तगुणाः; तेभ्यः सूक्ष्मजीवा असंख्येयगुणाः। यदागमः. “एएसिं णं भंते ! जीवाणं सुहुमाणं पायराणं योसुहुमाणं णोबायराणं कयरेकयरेहितो अप्पा वा, बहुआ वा, तुल्ला वा, विसेसाहिआ वा । गोयमा ! सन्चयोवा जीवा जोसुहुमा णोबायरा, बायरा अपंतगुणा, सुहुमा असंखेजगुणा" इति ।
एतवृत्तिर्यथा-"एएसि णं भंते ! जीवाणं सुहुमाणमित्यादि । सर्वस्तोका जीवा जोसुहुमा णोबायरा, सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशे_दरजीतराशेश्वानन्ततमभागकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽ नन्तगुणत्वात् । तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद् " इति ।
तत एवमागमवाधापरिहारार्थ वादरनिगोदजीवा अव्यावहारिकाः स्वीकर्तव्याः। प्रयोगश्चात्र-बादरनिगोदजीवा न व्यवहारिणः, तेषां सिद्धेभ्योऽनन्तगुणत्वात् । यथा सूक्ष्मनिगोदजीवास्तथा अनादिमन्तः १ सिध्यन्ति यावन्तः किल इह संव्यवहारजीवराशितः।
यन्ति अनादिवनस्पतिमध्यात्तावन्त एव । २ एतेषां भगवन् जीवानां सूक्ष्मानां बादराणां नोसूक्ष्माणां मोबादराणां (सिखाना) कतरे कतरेभ्योऽल्पा वा बहवो वा तुल्या या विशेषाधिका वा ? । गौतम ! सर्वस्तोका जीवा नोसूक्ष्मा नोबादराः, बादरा अनन्तगुणाः, सूक्ष्मा असंख्येयगुणा इति।